________________
योगशास्त्रम्
॥९९॥
COCHES & CHOO
पापेनैवार्थरागान्धः फलमाप्नोति यत् कथित् । वडिशामिषवत्तत्तमविनाश्य न जीर्यति ॥ १ ॥ न्याय एव परमार्थतोऽर्थोपार्जनोपायोपनिषत् । यदाह-
निपानमिव मण्डूकाः सरः पूर्णमिवाण्डजाः । शुभकर्माणमायान्ति विवशाः सर्वसम्पदः ||१|| विभवत्वं च गार्हस्थ्ये प्रधानं कारणमित्यादा न्यायसम्पन्नविभव इत्युक्तम् ॥१॥ तथा शिष्टाचारप्रशंसकः चारचरितम् । यथा—
लोकापवादभीरुत्वं दीनाभ्युद्धरणादरः । कृतज्ञता सुदाक्षिण्यं सदाचारः प्रकीर्त्तितः ||१|| इत्यादि । तस्य प्रशंसकः । यथा
विपद्युच्चैः स्थेयं पदमनुविधेयं च महतां, प्रिया न्याय्या वृत्तिर्मलिनमसुभङ्गेऽप्यसुकरम् ॥ असन्तो नाभ्यर्थ्याः सुहृदपि न याच्यस्तनुधनः सतां केनोद्दिष्टं विषममसिधाराव्रतमिदम् ॥ १ ॥२॥ तथा कुलं पितृपितामहादिपूर्व पुरुषवंशः, शीलं मद्यमांसनिशाभोजनादिपरिहाररूपः समाचारस्ताभ्यां समास्तुल्याः समकुलशीला इत्यर्थः । गोत्रं नाम तथाविधैकपुरुषप्रभवो वंशस्तत्र जाता गोत्रजाः तेभ्योऽन्येऽन्यगोत्र' जस्तैः सार्द्धं कृतोद्वाsो विहितविवाहः । अग्निदेवादिसाक्षिकं पाणिग्रहणं विवाहः । स च लोकेऽष्टविधः तत्रालङ्कृत्य कन्यादानं ब्राह्मो विवाहः १ । विभवविनियोगेन कन्यादानं प्राजापत्यः २ । गोमिथुनदानपूर्वकमार्षः ३ । यत्र यज्ञार्थमृत्विजः कन्याप्रदानमेव दक्षिणा स दैवः ४ । एते धर्म्या विवाहाश्चत्वारः । मातुः पितुर्बन्धूनां
शिष्यन्ते स्म शिष्टा दृत्तस्थज्ञानवृद्धसेवोपलब्धविशुद्धशिक्षाः पुरुषविशेषास्तेषामा
EXCORERO ORREST & CREEEEEE
योग
स्वरूपम्
॥९९॥