________________
योग शास्त्रम्
योगस्वरूपम्
॥९८॥
|| अजीर्णे भोजनत्यागी काले भोक्ता च सात्म्यतः। अन्योऽन्याप्रतिबन्धेन त्रिवर्गमपि साधयन्।५२ यथावदतिथौ साधौ दोने च प्रतिपत्तिकृत् । सदानभिनिविष्टश्च पक्षपाती गुणेषु च ॥५३॥ अदेशाकालयोश्चर्या त्यजन् जानन् बलाबलम् । वृत्तस्थज्ञानवृद्धानां पूजकः पोष्यपोषकः॥५४॥ दीर्घदशी विशेषज्ञः कृतज्ञो लोकवल्लभः । सलजः सदयः सौम्यः परोपकृतिकर्मठः ॥५५॥ अन्तरङ्गारिषड्वर्गपरिहारपरायणः । वशीकृतेन्द्रियग्रामो गृहिधर्माय कल्पते ॥५६॥
(दशभिः कुलकम्) स्वामिद्रोहमित्रद्रोहविश्वसितवञ्चनचौर्यादिगार्थोपार्जनपरिहारेणार्थोपार्जनोपायभूतः स्वस्ववर्णानुरूपः सदाचारो न्यायस्तेन सम्पन्न उत्पन्नो विभवः सम्पद्यस्य स तथा । न्यायसम्पन्नो हि विभव इहलोकहिताय । अशङ्कनीयतया स्वशरीरेण तत्फलभोगान्मित्रस्वजनादौ संविभागकरणाच । यदाह
सर्वत्र शुचयो धीराः स्वकर्मबलगर्विताः । कुकर्मनिहतात्मानः पापाः सर्वत्र शङ्किताः ॥१॥
परलोकहिताय च सत्पात्रेषु विनियोगाद्दीनादौ कृपया वितरणाच्च । अन्यायोपात्तस्तु लोकद्वयेऽप्यहितायैव इहलोके हि लोकविरुद्धकारिणो वधबन्धादयो दोषाः परलोके नरकादिगमनादयः । यद्यपि कस्यचित्पापानुबन्धिपुण्यकर्मवशादैहलौकिकी विपन्न दृश्यते तथाप्यायत्यामवश्यम्भाविन्येव । यदाह
॥१८॥