________________
योगशास्त्रम्
योग स्वरूपम्
॥९॥
सर्वात्मना यतीन्द्राणामेतच्चारित्रमीरितम् । यतिधर्मानुरक्तानां देशतः स्यादगारिणाम् ॥४६॥
द्विधा चारित्रं सर्वदेशभेदात् । सर्वात्मना चारित्र सर्वसावधयोगविरतिलक्षणम् । यतीन्द्राणामनगारिश्रेष्ठानामेतन्मूलगुणोत्तरगुणस्वरूपमीरितम् । धातूनामनेकार्थत्वात्प्रतिपादितम् । देशचारित्रं तु केषामित्याह । अगारिणां गृहस्थानां देशत एकदेशविरतिलक्षणम् । कि विशिष्टानामगारिणां ? यतिधर्मानुरक्तानां यतिधर्मे सर्वविरतिचारित्र रूपे अनुरक्तानां संहननादिदोषादकुर्वतामपि प्रीतिमताम् । यदाह-सर्वविरतिलालसः खलु देशविरतिपरिणामः यतिधर्मानुरागरहितानां तु गृहस्थानां देशविरतिरपि न सम्यगिति देशतः स्यादगारिणामित्युक्तम् ॥४६॥ तत्र यादृशो गृहस्थो धर्माधिकारी तादृशमुपदर्शयितुं तथाहीत्यनेन प्रस्तावनामाह, तथाहीत्युपदर्शने निपातसमुदायः-- न्यायसम्पन्न विभवः शिष्टाचारप्रशंसकः । कुलशीलसमैः साथै कृतोद्वाहोऽन्यगोत्रजः ॥४७॥ पापभीरुः प्रसिद्धं च देशाचारं समाचरन् । अवर्णवादी न वापि राजादिषु विशेषतः॥४८॥ अनतिव्यक्तगुप्ते च स्थाने सुप्रातिवेश्मिके । अनेकनिर्गमद्वारविवर्जितनिकेतनः ॥४९॥ कृतसङ्गः सदाचारर्मातापित्रोच पूजकः । त्यजन्नुपप्लुतं स्थानमप्रवृत्तश्च गर्हिते ॥५०॥ व्ययमायोचितं कुर्वन् वेषं वित्तानुसारतः । अष्टभिर्धीगुणैर्युक्तः श्रृण्वानो धर्ममन्वहम्॥५१॥
॥२७॥
MADHE