________________
योगशास्त्रम्
योगस्वरूपम्
॥९
॥
भूप्रदेशे प्रत्येच मुखवजिको वा प्रमा
कृतवामवाहूपधान आकुश्चितजानुकः कुक्कुटीवद्वियति प्रसारितजसो वा प्रमार्जितक्षोणीतलन्यस्तचरणो वा भूयः सङ्कोचसमये प्रमार्जितसंदंशकः उद्वर्तनकाले च मुखवस्विकाप्रमृष्टकायो नात्यन्ततीब्रनिद्रः शयीत । प्रमाणयुक्ता तु वसतिस्तत्रयप्रमिते भूप्रदेशे प्रत्येकं सभाजनानां साधूनां यत्रावस्थानं सकलाबकाशपूरणं च स्यात् । आसनमुपवेशनं तद्यत्र प्रदेशे चिकीर्षितं तं चक्षुषा निरीक्ष्य प्रमृज्य च रजोहरणेन बहिर्निषद्यामास्तीर्योपविशेत् उपविटोऽप्याकुञ्चनप्रसारणादि तथैव कुर्वीत वर्षादिषु च वृषीपीठादिषूक्तयैव सामाचार्योपविशेत् । निक्षेपादाने च दण्डाद्युपकरणविषये ते अपि प्रत्यवेक्ष्य प्रमृज्य च विधेये । चंक्रमणं गमनं तदप्यावश्यकप्रयोजनवतः साधोः पुरस्तायुगमात्रप्रदेशसन्निवेशितदृष्टेरप्रमत्तस्य त्रसस्थावरभूतानि संरक्षतोऽत्वरया पदन्यासमाचरतः प्रशस्तं । स्थानमूर्ध्वस्थितिलक्षणमवष्टम्भादि च प्रत्यवेक्षितप्रमार्जितप्रदेशविषयम् । एतेषु चेष्टानियमः स्वच्छन्दचेष्टापरिहारो यः सा अपरा द्वितीया कायगुप्तिरिति ॥४४॥
एतासामागमप्रसिद्ध मातृत्वमुपदर्शयतिएताश्चारित्रगात्रस्य जननात्परिपालनातू संशोधनाच्च साधूनां मातरोष्टौ प्रकीर्तिताः॥४५॥ एताः समितिगुप्तयः शास्त्रेऽष्टौ मातर इति प्रसिद्धाः। मातृत्वे हेतूनाह । साधूनां सम्बन्धि चारित्रमेव गात्रमङ्गं तस्य जननादभूतस्य प्रादुर्भावनात् । जनितस्य च चारित्रगात्रस्य परिपालनात्सापद्रवनिवारणेन पोषणेन च वृद्धिनयनात् । चारित्रगात्रस्यैवादिचारनलिनस्य सतः संशोधनान्निर्मलीकरणादिति ॥४५॥
चारित्रं व्याख्यायोपसंहरति
॥९॥
eesed