________________
योगशास्त्रम्
योग
स्थरूपम्
यदाहु:-- १समिओ नियमा गुत्तो गुत्तो समियत्तणम्मि भयणिज्जो। कुसलवयमुईरंतो जं वइगुत्तो वि समिओ वि ॥२४॥
अथ कायगुप्ति सा च द्विधा चेष्टानिवृत्तिलक्षणा यथासूत्रं चेष्टानियमलक्षणा च, तत्राद्यामाह-- उपसर्गप्रसङ्गेऽपि कायोत्सर्गजुषो मुनेः । स्थिरीभावः शरीरस्य कायगुप्तिर्निगद्यते ॥४३॥
उपसर्गा देवमानुषतिर्यकृता उपद्रवाः । उपलक्षणत्वात् क्षुत्पिपासादयः परीषहा अपि गृह्यन्ते तेषां प्रसङ्गः । सन्निपातः । अपि शब्दात्तदभावेऽपि मुनेः साधोः कायः शरीरं तस्योत्सर्गस्त्यागस्तत्र निरपेक्षतालक्षणस्तं जुषते तस्य कायोत्सर्गजुषो यः स्थिरीभावो निश्चलता योगनिरोधं कुर्वतः सर्वथा शरीरचेष्टापरिहारो वा यः, सा कायगुप्तिः ॥४३॥
द्वितीयामाहशयनासननिक्षेपादानचंक्रमणेषु यः स्थानेषु । चेष्टानियमः कायगुप्तिस्तु साऽपरा ॥४४॥
शयनमागमोक्तो निद्राकालः स च रात्रावेव न दिवा । अन्यत्र ग्लानाध्वश्रान्तवृद्धादेः । तत्रापि प्रथमयामेऽ तिक्रान्ते गुरूनापृच्छच प्रमाणयुक्तायां वसतौ संवीक्ष्य प्रमृज्य च भूमि संहत्यास्तीर्य च संस्तरणपट्टकद्वयमूर्ध्वमधश्च कार्य सपादं मुखवस्त्रिकारजोहरणाभ्यां प्रमृज्यानुज्ञापितसंस्तारकावस्थानः पठितपश्चनमस्कारसामायिकसूत्रः १ समितो नियमाद्गुप्तो गुप्तः समितत्वे भजनीयः। कुशलबाचमुदीरयन् यत् वाग्गुप्तोऽपि सांमतोऽपि ॥१॥
१९५॥