________________
योग
योगशास्त्रम्
स्वरूपम्
॥२४॥
यत्नादुपयोगपूर्वकं यदुत्सृजेत्साधुः सोत्सर्गसमितिः ॥४०॥
अथ गुप्तीनामवसरः, तत्र मनोगुप्तिमाह| विमुक्तकल्पनाजालं समत्वे सुप्रतिष्ठितम्। आत्मारामं मनस्तज्ज्ञैर्मनोगुप्तिरुदाहृता ॥४१॥
इह मनोगुप्तिस्त्रिधा । आतरौद्रध्यानानुबन्धिकल्पनाजालवियोगः प्रथमा । शास्त्रानुसारिणी परलोकसाधिका धर्मध्यानानुबन्धिनी माध्यस्थ्यपरिणतिद्धितीया । कुशलाकुशलमनोवृत्तिनिरोधेन योगनिरोधावस्थाभाविन्यात्मारामता तृतीया । ता एतास्तिस्रोऽपि विशेषणत्रयेणाह-विमुक्तकल्पनाजालमिति समत्वे सुप्रतिष्ठितमिति आत्माराममिति च एवंविधं मनो मनोगुप्तिः ॥४१॥
वाग्गुप्तिमाह-- संज्ञादिपरिहारेण यन्मौनस्यावलम्बनम् । वाग्वृत्तेः संवृतिर्वा या सा वाग्गुप्तिरिहोच्यते ॥४२॥
संज्ञा मुखनयनभूविकारागुल्याच्छोटनादिका अर्थसूचिकाश्चेष्टाः आदिशब्दाल्लोष्टक्षेपो भावकासितहुकृतादीनि गृह्यन्ते । संज्ञादीनां यः परिहारस्तेन यन्मौनमभाषणं तस्यावलम्बनमभिग्रहः । संज्ञादिना हि प्रयोजनानि सूचयतो मौनं निष्फलमेवेत्येका वाग्गुप्तिः । वाचनप्रच्छनपृष्टव्याकरणादिषु लोकागमाविरोधेन मुखवस्त्रिकाच्छादितवक्त्रस्य भाषमाणस्यापि वाग्वृत्तेः संवृतिर्वाग्विनियन्त्रणं द्वितीया वाग्गुप्तिः। आभ्यां भेदाभ्यां वाग्गुप्तेः सर्वथा वाग्निरोधः सम्यग्भाषणं च रूरूपं प्रतिपादितं भवति, भाषासमितौ तु सम्यग्वाक्प्रवृत्तिरेवेति वाग्गुप्तिभाषासमित्योर्भेदः।
॥९४ा