________________
योगशास्त्रम्
योगस्वरूपम्
LIR RUL
उत्पादनोद्गमैषणाध्मांगारप्रमाणकारणतः । संयोजनाच पिण्डं शोधयतामेषणासमितिः ॥१॥ इति ॥३८॥
आदाननिक्षेपसमितिमाह-- आसनादीनि संवीक्ष्य प्रतिलिख्य च यत्ननः। गृह्णीयान्निक्षिपेद्वा यत्सादानसमितिः स्मृता ॥३९॥
आसनं विष्टरः आदिशब्दाद्वस्त्रपात्रफलकदण्डादेः परिग्रहः । तान्यासनादीनि संवीक्ष्य चक्षुषा प्रतिलिख्य रजोहरणादिना यत्नत इत्युपयोगपूर्वकम् । अन्यथा सम्यक्प्रतिलेखना न स्यात् । यदाह
१पडिलेहणं कुणतो मिहो कई कुणइ जणवयकहं वा । देइ व पच्चक्खाणं वाएइ सय पडिच्छइ वा ॥१॥ २पुढवीआउकाए तेऊवाऊवणस्सइतसाण । पडिलेहणापमत्तो छण्डंपि विराहगो भणिओ ॥२॥
यद्गृह्णीयादाददीत निसिपेत् स्थापयेत्सवीक्षितप्रतिलिखितभूमौ सा आदाननिक्षेपसमितिः। भीमो भीमसेन इति न्यायादादानसमितिः ॥३७॥ उत्सर्गसमितिमाह| कफमूत्रमलपोयं निर्जन्तुजगतीतले । यत्नाद्यदुत्सृजेत्साधुः सोत्सर्गसमितिर्भवेत् ।४०।
कफः श्लेष्मा मुखनासिकासञ्चारी मूत्रं प्रश्रवणं मलो विष्ठा प्रायग्रहणादन्यदपि परिष्ठापनायोग्य वस्त्रपात्रभतपानादि गृह्यते । निर्जन्तुस्खसस्थावरजन्तुरहिता स्वयं च निजन्तुर्या जगती तस्यास्तलं स्थण्डिलमित्मर्थः। तत्र (१) प्रतिलेखनां कुर्वन् मिथः कथां करोति जनपदकथां वा । ददाति वा प्रत्याख्यानं वाचयति स्वयं प्रतीच्छति वा । (२) पृथिव्यप्कायतेजोवायुवनस्पतित्रसानाम् । प्रतिलेखनाप्रमत्तः षण्णामपि विराधको भणितः ॥
॥१३॥