________________
योगशास्त्रम् ॥९२।
योग स्वरूपम्
तदेवमुद्गमोत्पादनैषणादोषाः संहता द्विचत्वारिंशद्भवन्ति, ते च भिक्षादोषास्तैरक्षितमन्नमशनखाद्यस्वाधभेदमुपलक्षणत्वात्पान सौवीरादि, तथा रजोहरणमुखवस्त्रचोलपट्टपात्रादिस्थविरकल्पिकयोग्यश्चतुर्दशविधो, जिनकल्पिकयोग्यश्च द्वादशविध औधिक उपधिः, आर्यिकायोग्यश्च पञ्चविंशतिविधः । औपग्रहिकश्च शय्यापीठफलकचर्मदण्डादिरूपलक्षणादेव परिगृह्यते । न ह्यौधिकरजोहरणाद्यन्तरेण औपग्रहिकपीठफलकाद्यन्तरेण च वर्षासु हेमन्तग्रीष्मयोरपि जलकणिकाकुलायामनूपभूमौ१ महाव्रतसंरक्षणं कर्तु क्षमम् । एतदोषविशुद्धमन्नादि यन्मुनिरादत्ते सा एषणमेषणा यथागममन्नादेरन्वेषणम् । अत्र “इषोऽनिच्छायाम्" ॥५।३।११२॥ इति खियाममस्तस्यां च समितिरेषणासमितिः। इयं गवेषणारूपा एषणा, ग्रासैषणाप्यनयोपलक्ष्यते तस्यां च पश्च दोषाः । तद्यथा
संयोजना १ प्रमाणातिरिक्तता २ अङ्गारो ३ धूमः ४ कारणाभावश्च ५ । तत्र रसलोभाद्रव्यस्य मण्डकादेद्रव्यान्तरेण खण्डघृतादिना वसतेबहिरन्तर्वा योजनं संयोजना ॥१॥ धृतिबलसंयमयोगा यावता न सीदन्ति तदाहारप्रमाणम् । अधिकाहारस्तु वमनाय मृत्यवे व्याधये चेति तं परिहरेदिति प्रमाणातिरिक्ततादोषः ॥२॥ स्वाद्वनं तदातारं वा प्रशंसन् यद्भुक्ते सरागाग्निना चरित्रेन्धनस्याङ्गारीकरणादगारो दोषः ॥३॥ निन्दन् पुनश्चारित्रेन्धनं दहन् धूमकरणाधूमो दोषः ॥४॥ क्षुद्वेदनाया असहनं क्षामस्य च वैयावृत्त्याकरणमीर्यासमितेरविशुद्धिः प्रेक्षोत्प्रेक्षादेः संयमस्य चापालनं क्षुधातुरस्य प्रबलाग्न्युदयात्प्राणप्रहाणशङ्का आतरौद्रपरिहारेण धर्मध्यानस्थिरीकरण चेति भोजनकारणानि तदभावे भुजानस्य कारणाभावदोषः ॥५॥ यदाह(१) जलमयभूमौ
॥१२॥