________________
द्वितीय प्रकाशः
योगशास्त्रम् ॥१३३॥
"सम्मत्तम्मि उ लद्धे पलियपुहुत्तेण सावओ होज्ज ति" ॥१७॥
सम्यक्त्वमूलानि पश्चाणुव्रतानीत्युक्तं सम्यक्त्वमभिहितमिदानीमणुव्रतान्याह| विरतिं स्थूलहिंसादेर्द्विविधत्रिविधादिना । अहिंसादीनि पञ्चाणुव्रतानि जगदुर्जिनाः ॥१८॥
स्थूला मिथ्यादृष्टीनामपि हिंसात्वेन प्रसिद्धा या हिंसा सा स्थूलहिसा स्थूलानां वा प्रसानां जीवानां हिंसा स्थूलहिंसा । स्थूलग्रहणमुपलक्षणम् । तेन निरपराधसङ्कल्पपूर्वकहिंसानामपि ग्रहणं आदिग्रहणात् स्थूलानृतस्तेयाब्रह्मचर्यषरिग्रहाणां संग्रहः । एभ्यः स्थूलहिंसादिभ्यो या विरतिनिवृत्तिस्तामहिंसादीनि अहिंसासूनृतास्तेयब्रह्मचपिरिग्रहान् पञ्चाणुव्रतानीति ( तानि ) जिनास्तीर्थकरा जगदुः प्रतिपादितवन्तः । किमविशेषेण विरतिर्नेत्याह । द्विविधत्रिविधादिना भङ्गजालेन द्विविधः कृतकारितरूपस्त्रिविधो मनोवाकायभेदेन यत्र स द्विविधत्रिविध एको भङ्गः । इह यो हिंसादिभ्यो विरतिं प्रतिपद्यते, स द्विविधां कृतकारितभेदां त्रिविधेन मनसा वचसा कायेन चेति । एवं च भावना---स्थूलहिंसां न करोत्यात्मना न कारयत्यन्येन मनसा वचसा कायेन चेति । अस्य चानुमतिरप्रतिषिद्धा अपत्यादिपरिग्रहसद्भावात् तैर्हिसादिकरणे च तस्यानुमतिप्राप्तः । अन्यथा परिग्रहापरिग्रहयोरविशेषेण प्रव्रजिताप्रबजितयोरभेदापत्तेः ननु भगवत्यादावागमे त्रिविधं त्रिविधेनेत्यपि प्रत्याख्यानमुक्तमगारिणः, तच्च श्रुतोक्तत्वादनवद्यमेव तत्कस्मान्नोच्यते ? उच्यते-तस्य विशेषविषयत्वात् । तथाहि यः किल प्रविजिषुरेव (१) सम्यक्त्वे तु लब्धे पल्योपमपृथक्त्वेन श्रावको भवेदिति ।
॥३३॥