________________
योगशास्त्रम्
योग
॥८
॥
कुतुपादिस्थस्य प्रतादेर्दानार्थ यत् मृत्तिकाद्यपनयनं तदुद्भिन्नम् ॥१२॥ यदुपरिभूमिकातः शिक्यादेभूमिगृहाद्वा आकृष्य साधुभ्यो दानं तन्मालापहृतम् ॥१३॥ उदाच्छिद्य परकीयं हठात् गृहीत्वा स्वामी प्रभुश्चौरो वा ददाति तदाच्छेद्यम् ॥१४॥ यद्गोष्ठीभक्तादि सर्वैरदत्तमननुमतं वा एकः कश्चित्साधुभ्यो ददाति तदनिसृष्टम् ॥१५॥ स्वार्थमधिश्रयणे सति साधुसमागमश्रवणात्तदर्थं पुनर्यों धान्यादिवापः सोऽध्यवपूरकः ॥१६॥ उत्पादनादोषा अपि पोडश ते च साधुप्रभवाः । तद्यथा--
धाई दुई निमित्ते आजीववणीवगे तिगिच्छा य । कोहे माणे माया लोभे अ हवन्ति दस एए ॥१॥ २पुब्धि पच्छासंथविज्जामन्ते अ चुण्णजोए य । उप्पायणाइ दोसा सोलसमे मूलकम्मे य ॥२॥ बालस्य क्षीरमज्जनमण्डनक्रीडनाङ्कारोपणकर्मकारिण्यः पञ्च धान्यः एतासां कर्म भिक्षार्थ कुर्वतो मुनेर्धात्रीपिण्डः ॥१॥ मिथः सन्देशकथनं दूतीत्वं तत्कुर्वतो भिक्षार्थ दतीपिण्डः ॥२॥ अतीतानागतवर्तमानकालेषु लाभालाभादिकथनं निमित्तं तद्भिक्षार्थ कुर्वतो निमित्तपिण्डः ॥३॥ जातिकुलगणकर्मशिल्पादिप्रधानेभ्य आत्मनस्तत्तद्गुणत्वारोपणं भिक्षार्थमाजीवपिण्डः ॥४॥ (१) धात्री दुती निमित्तं आजीववनीपके चिकित्सा च । क्रोधो मानो माया लोभश्च भवन्ति दश पते ॥ (२) पूर्वपश्चात्संस्तवविद्यामन्त्रं च चूर्णयोगश्च । उत्पादनाया दोषाः पोख्यो मूलकर्म च ॥
॥८॥