________________
योग
शास्त्रम्
योगस्वरूपम्
॥८
॥
आधाय विकल्प्य यति मनसि कृत्वा सचित्तस्याचित्तीकरणमचित्तस्य या पाको निरुक्तादाधाकर्म ॥१॥ उद्देशः साध्वर्थ सङ्कल्पः स प्रयोजनमस्य औद्देशिक यत्पूर्वकृतमोदनमोदकक्षोदादि तत्साधृद्देशेन दध्यादिना गुडपाकेन च संस्कुतो भवति ॥२॥ आधाकम्मिकावयवसम्मिश्रं शुद्धमपि यत्तत्पूतिकर्म शुचिद्रव्यमिवाशुचिद्रव्यसम्मिश्रम् ॥३॥ यदात्मार्थ साध्वयं चादित एव मिश्रं पच्यते तन्मिश्रम् ॥४॥ साधुयाचितस्य क्षीरादेः पृथक्कृत्य स्वभाजने स्थापनं स्थापना ॥५॥ कालान्तरभाविनो विवाहादेरिदानीं सन्निहिताः साधवः सन्ति तेषामप्युपयोगे भवत्विति बुद्धया इदानीमेव करणं समयपरिभाषया प्राभृतिका, सन्निकृष्टस्य विवाहादेः कालान्तरे साधुसमागमन सश्चिन्त्योत्कर्षणं' वा ॥६॥
यदन्धकारव्यवस्थितस्य द्रव्यस्य वसिप्रदीपमण्यादिना भित्त्यपनयनेन वा, बहिनिष्कास्य द्रव्यधारणेन वा, प्रकटकरणं तत्प्रादुष्करणम् ॥७॥ यत्साध्वर्थ मूल्येन क्रीयते तत्क्रीतम् ॥८॥ यत्साध्वर्थमन्नादि उद्यतकं गृहीत्वा दीयते तत्प्रामित्यकम् ॥९॥ स्वद्रव्यमर्पयित्वा परद्रव्यं तत्सदृशं गृहीत्वा यद्दीयते तत्परिवर्तितम् ॥१०॥ गृहयामादेः साध्वर्थ यदानीतं तदभ्याहृतम् ॥११॥ (१) दूरनयनम्, विलम्बेन करणमिति यावत् ॥ (२) उद्धारके ॥
છેલ્લા