________________
योग
शास्त्रम्
॥९०॥
श्रमण ब्राह्मणक्षपणातिथिश्वानादिभक्तानां पुरतः पिण्डार्थमात्मानं तत्तद्भक्तं दर्शयतो वनीपकपिण्डः ॥५॥ वमन विरेचनवस्तिकर्मादि कारयतो वैद्यभैषज्यादि सूचयतो वा पिण्डार्थ चिकित्सा पिण्डः || ६ || विद्यातपःप्रभावज्ञापनं राजपूजादिख्यापनं क्रोधफलदर्शन वा भिक्षार्थं कुर्वतः क्रोधपिण्डः ॥७॥ लब्धिप्रशंसोत्तानस्य परेणोत्साहितस्यावमतस्य वा गृहस्थाभिमानमुत्पादयतो मानपिण्डः ||८|| नानावेषभाषापरिवर्त्तनं भिक्षार्थी कुवतो मायापिण्डः ॥ ९ ॥
अतिलोभाद् भिक्षार्थी पर्यटतो लोभपिण्डः ॥१०॥
पूर्वसंस्तवं जननीजनकादिद्वारेण पश्चात्संस्तवं श्वश्रूश्वशुरादिद्वारेणात्मपरिचयाऽनुरूषं सम्बन्धं भिक्षार्थं घटयतः पूर्वपश्चात्संस्तव पिण्डः ||११
विद्यां मन्त्र चूर्ण योगं च भिक्षार्थं प्रयुञ्जानस्य चत्वारो विद्यादिपिण्डाः-मन्त्रजपहोमादिसाध्या स्त्रीदेवताधिष्ठाना वा विद्या ||१२|| पाठमात्र प्रसिद्धः पुरुषाधिष्ठानो वा मन्त्रः ॥ १३ ॥ चूर्णानि नयनाञ्जनादीनि अन्तर्द्धानादिफलानि ॥१४॥ पादप्रलेपादयः सौभाग्यदौर्भाग्यकरा योगाः ॥ १५ ॥
गर्भस्तम्भगर्भाधानप्रसवस्नपनकमूलरक्षाबन्धनादि भिक्षार्थं कुर्वतो मूलकर्म्मपिण्डः ॥१६॥
गृहिसाधूभयप्रभवा एषणादोषा दश । तद्यथा-
योग
स्वरूपम्
॥९०॥