________________
योग
योगशास्त्रम्
स्वरूपम्
अथ समितिगुप्तीश्च नामत आहईर्याभाषेषणोदाननिक्षेपोत्सर्गसंज्ञिकोः । पञ्चाहुः समितीस्तिसो गुप्तीस्त्रियोगनिग्रहात् ॥३५॥
ईर्यासमिति षासमितिरेषणासमितिरादाननिक्षेपसमितिरुत्सर्गसमितिरित्येताः पञ्च समितीब्रुवते तीर्थकराः । त्रिसंख्या योगास्त्रियोगा मनोवाक्कायव्यापारास्तेषां निग्रहो निरोधः प्रवचनविधिना मार्गव्यवस्थापनमुन्मार्गनिवारणं च । निग्रहादिति हेतौ पश्चमी तेन मनोगुप्तिर्वचनगुप्तिः कायगुप्तिरिति तिस्रो गुप्तीब्रुवते ॥३५॥-ईर्यालक्षणमाहलोकातिवाहिते मार्गे चुम्बितेभास्वदंशभिः। जन्तरक्षार्थमालोटक्य गतिरीर्या मतो सताम ||3|
त्रसस्थावरजन्तुजाताभयदानदीक्षितस्य मुनेरावश्यके प्रयोजने गच्छतो जन्तुरक्षानिमित्तं स्वशरीररक्षानिमित्त च पादाग्रादारभ्य युगमात्रक्षेत्र यावत निरीक्ष्य ईरणमीर्या गतिस्तस्यां समितिरीर्यासमितिः। यदाहः
१पुरओ जुगमायाए पेहमाणो महि चरे । वज्जतो बीयहरियाई पाणे य दगमट्टियं ॥१॥ २ओवायं विसमं खाणुं विजल परिवञ्जए । सङ्कमेण न गच्छेञ्जा विज्जमाणे परक्कमे ॥२॥
गतिश्च मार्गे भवति तस्य विशेषणं लोकातिवाहितेलोकैरतिवाहितेअत्यन्तक्षुणे स्पृष्टे चुम्बिते आदित्यकिरणैः । प्रथमविशेषणेन परॅविराधिते मार्गे गच्छतो यतेः षड्जीवनिकायविराधना न भवति उन्मार्गेण न गन्तव्यमिति
(१) पुरतो युगमात्रया प्रेक्षमाणों महीं चरेत् । वर्जयन् बीजहरितानि प्राणान् च दकमृत्तिकाम् ॥ (२) अवपातं विषम स्थाणु विजलं परिवर्जयेत् । संक्रमेण न गच्छेत् विद्यमाने पराक्रमे ॥
॥८५॥