________________
JOICCCase
योगशास्त्रम्
योगस्वरूपम्
॥८६॥
वाह । तथाविधेऽपि मार्गे रात्रौ गच्छतः सम्पातिमसत्त्वविराधना भवेदिति तत्परिहारार्थ द्वितीयविशेषणम् । एवं विधोपयोगवतश्च गच्छतो मुनेः कथंचित् प्राणिवधेऽपि प्राणिवधपापं न भवति । यदाह--
१उच्चालियम्मि पाए इरियासमियस्स सङ्कमट्ठाए । वावज्जेज्ज कुलिङ्गी मरिज्ज तं जोगमासज्ज ॥१॥ न२ य तस्स तन्निमित्तो बंधो मुहुमो वि देसिओ समए । अणवज्जो उपओगेण सब्वभावेण सो जम्हा ॥२॥
तथाजिअदु३ व मरदु ब जीवो अजदाचारस्स निच्छओ हिंसा । पयदस्स णत्थि बंधो हिसामित्तेण समिदस्स ॥३॥३५॥
भाषासमितिमाहअवद्यत्यागतः सर्वजनीनं मितभाषणम् । प्रिया वांचंयमानां सा भाषा समितिरुच्यते ॥३७॥
अवद्यानि भाषादोषा वाक्यशुद्धयध्ययनप्रतिपादिताः धर्तकामुकक्रव्यादचौरचार्वाकादिभाषितानि च तेषां निर्दम्भतया त्यागस्ततः सर्वजनीनं सर्वजनेभ्यो हितं, मितं स्वल्पमप्यतिबहुप्रयोजनसाधकं तच्च तद्भाषणं च । यदाह(१) उच्चालिते पादे ईर्यासमितस्य(तेन)संक्रमार्थम् । व्यापद्येत कुलिङ्गी (द्वीन्द्रियादिः) म्रियते तं योगमासाद्य ॥१॥ (२) न च तस्य तन्निमितो बन्धः सूक्ष्मोऽपि दर्शितः समये । अनवद्य उपयोगेन सर्वभावेत स यस्मात् ॥३॥ (३) जीवतु वा म्रियतां वा जीवोऽसदाचारस्य निश्चयतो हिंसा । प्रयतस्य नास्ति बन्धो हिंसामात्रेण समितस्य ॥३॥
॥८६॥