________________
योगशास्त्रम्
योग स्वरूपम्
LICEUL
पश्चमव्रतस्य भावना आह-- स्पर्शे रसें च गन्धे च रुपे शब्दे च हारिणि । पञ्चस्वितीन्द्रियार्थेषु गाढं गाढं गाद्धर्थस्य वर्जनम् ॥३२॥ | एतेष्वेवामनोज्ञेषु सर्वथा द्वेषवर्जनम् । आकिञ्चन्यव्रतस्यैवं भावनाः पञ्च कीत्तिताः ॥३३॥
(युग्मम्) स्पर्शादिषु मनोहारि विषयेषु यद्गाद गाद्धर्यस्याभिष्वङ्गस्य वर्जनम् । स्पर्शादिष्वेवामनोज्ञेष्विन्द्रियप्रतिकूलेषु यो द्वेषोऽप्रीतिलक्षणस्तस्य वर्जनम् । गाद्धर्यवान् हि मनोज्ञे विषयेऽभिष्वङ्गवानमनोज्ञान्विषयान्विद्वेष्टि मध्यस्थस्य तु मूर्छारहितस्य न कचित्प्रीतिरप्रीतिर्वा, रागानान्तरीयकतया च द्वेषस्योपादानम् । किश्चन बाह्माभ्यन्तरपरिग्रह रूपं नास्यास्तीत्यकिञ्चनस्तद्भाव आकिश्चन्यमपरिग्रहता । आकिश्चन्यं च तद्रतं च तस्यैताः पञ्च भावनाः ॥३२॥३३॥
मूलगुणरूपचरित्रमभिधायोत्तरगुणरूपं तदाह-- अथवा पञ्चसमितिगुप्तित्रयपवित्रितम् । चरित्रं सम्यक्चारित्रमित्याहुर्मुनिपुङ्गवाः ॥३४॥
समितिरिति पञ्चानां चेष्टानां तान्त्रिकी संज्ञा । अथवा सं सम्यक् प्रशस्ता अर्हत्प्रवचनानुसारेण इतिः चेष्टा समितिः पश्चानां समितीनां समाहारः पञ्चसमिति । गुप्तिरात्मनः संरक्षणं मुमुक्षोर्योगनिग्रह इत्यर्थः गुप्तीनां त्रयं गुप्तित्रय पञ्चसमिति च गुप्तित्रयं च ताभ्यां पवित्रितं यच्चरित्रं यतीनां चेष्टा सा सम्यक्चारित्रमुच्यते । सम्यनवृत्तिलक्षणा समितिः प्रवृत्तिनिवृत्तिलक्षणा गुप्तिरित्यनयोविशेषः ॥३४॥
॥८४॥