________________
योग
शास्त्रम्
॥८३॥
लीलाकटाक्षप्रणयकलह श्रृङ्गाररसानुविद्धा कथा वात्येव चित्तोदधेरवश्यं विक्षोभमादधातीति द्वितीया भावना । प्राक् प्रव्रज्याब्रह्मचर्यात् पूर्व गृहास्थावस्थायां यद्रतं स्त्रीभिः सह निधुवनं तस्य स्मृतिस्तस्या वर्जनं, प्राग्रतस्मरणेन्धनाद्धि कामानि: सन्धुक्ष्यते । इति तृतीया भावना । स्त्रीणामविवेकिजनापेक्षया यानि रम्याणि स्पृहणीयान्यङ्गानि मुखनयनस्तनजघनादीनि तेषामीक्षणमपूर्वविस्मयरसनिर्भरतया विस्फारिताक्षस्य विलोकनम् । ईक्षणामात्रं तु रागद्वेषरहितस्यादुष्टमेव । यदाह
अशक्यं रूपमद्रष्टुं चक्षुर्गोचरमागतम् । रागद्वेषौ तु यौ तत्र तौ बुधः परिवर्जयेत् ॥ १॥ इत्यादि ॥ तथा स्वस्यात्मनोऽङ्गं शरीरं तस्य संस्कारः स्नानविलेपधूपननखदन्त केशसन्मार्जनादिः, स्त्रीरम्याङ्गेक्षणं च स्वाङ्गसंस्कारश्च तयोः परिवर्जनात् । स्त्रीरम्याङ्गेक्षणतरलितविलोचनो हि दीपशिखायां शलभ इव विनाशमुपयाति । अशुचिशरीरसंस्कारमूढो हि तत्तदुत्कलिकामयैर्विकल्पेर्वृथात्मानमायासयतीति चतुर्थी भावना । प्रणीतो १वृष्यः स्निग्धमधुरादिरसः । अत्यशनमप्रणीतस्याऽपि रूक्षभैक्षस्या कण्ठमुदरपूरणं तयोस्त्यागो निरन्तरवृष्यमधुरस्निग्धरसप्रणीतो हि प्रधानधातुपरिपोषेण वेदोदयादब्रह्माऽपि सेवेत । अत्यशनस्य तु न केवलं ब्रह्मक्षतिकारित्वाद्वर्जनं शरीरपीडाकारित्वादपि । यदाह
२अद्धुमसणस्स व्वंजणस्स सव्वंजणस्स कुज्जा दगस्स दो भागे । वाउपवियारणहाछबूभायं ऊणगं कुज्जा ॥१॥ इति पञ्चमी भावना । एवं नविधब्रह्मचर्यगुप्तिसंग्रहेण ब्रह्मचर्यव्रतस्य पञ्च भावनाः ||३०||३१||
१ वीर्यवर्धकः २ अर्धमशनस्य सव्यञ्जनस्य द्वौ भागौ । वायुप्रविचारणार्थ षष्ठभागमूनकं कुर्यात् ॥१॥
योग
स्वरूपम्
८३॥