________________
योगशास्त्रम्
॥८२॥
चतुर्थी भावना । अनुज्ञापिते अनुज्ञया स्वीकृने ये पानान्ने तयोरशनं सूत्रोक्तेन हि विधिना प्रामुकमेषणीयं कल्पनीयं च पानानं लब्धमानीयालोचनापूर्वं गुरवे निवेद्यानुज्ञातो गुरुणा मण्डल्यामेकको वाऽश्नीयात् । उपलक्षणमेतत् यत् किञ्चिदौघिकौपग्रहिक भेदमुपकरणं धर्मसाधनं तत्सर्वं गुरुणाऽनुज्ञातं परिभोक्तव्यम् । एवं विदधानो नातिक्रामत्यस्तेयत्रतमिति पञ्चमी भावना ।
चतुर्थव्रतभावना आह—
स्त्रीषण्ढपशुमद्वेश्मासनकुडचान्तरोज्झनात् । सरागस्त्रीकथात्यागात्प्राग्रतस्मृतिवर्जनात् ॥३०॥ स्त्रीरम्याङ्गेक्षणस्वाङ्गसंस्कारपरिवर्जनात् । प्रणीतात्यशनत्यागाद् ब्रह्मचर्ये तु भावयेत् ॥३१॥ (युग्मम्)
स्त्रियो देवमानुष भेदाद्विविधाः एताश्च सचित्ताः । अचित्तास्तु पुस्तलेप्यचित्रकर्मादिनिर्मिताः । पण्डास्तृतीयवेदोदयवर्त्तिनो महामोहकर्माणः खीपुंससेवनाभिरताः । पशवस्तिर्यग्योनिजाः तत्र गोमहिषीवडवा बालेयीअजाsविकादयः सम्भाव्यमानमैथुनाः । एभ्यः कृतद्वन्द्वेभ्यो मतुः स्त्रीषण्ढपशुमती च ते वेश्मासने च वेश्म - वसतिः, आसनं-संस्तारकादि, कुडचान्तरं यत्रान्तरस्थोऽपि कुडचादौ दम्पत्योर्मोहनादिशब्दः श्रूयते ब्रह्मचर्यभङ्गभयादेषा मुज्झनं त्यागः । इति प्रथमा भावना । सरागस्य मोहोदयवतो या स्त्रीभिः कथा खीणां वा कथा सरागाश्च ताः त्रियश्च ताभिस्तासां वा कथा तस्यास्त्यागः । रागानुबन्धिनी हि देशजातिकुलनेपथ्यभाषागतिविभ्रमेङ्गितहास्य
(१) बालेयी - गर्दभी
योग
स्वरूपम्
॥८२॥