________________
योग
शास्त्रम्
॥१॥
आलोच्यावग्रहयाञ्चाभीक्ष्णावग्रहयाचनम् । एतावन्मात्रमेवैतदित्यवग्रहधारणम् ॥ २८ ॥ समानधार्मिकेभ्यश्च तथावग्रहयाचनम् । अनुज्ञापितपानान्नाशनमस्तेयभावनाः ॥ २९ ॥ (युग्मम्)
आलोच्य मनसा विचिन्त्यावग्रहं याचेत । देवेन्द्रराजगृहपतिशय्यातरसाधर्मिक भेदाद्धि पञ्चावग्रहाः । अत्र च पूर्वः पूर्वी बाध्य उत्तर उत्तरो बाधकः । तत्र देवेन्द्रावग्रहो यथा सौधर्माधिपतेर्दक्षिणलोकार्थे ईशानाधिपतेरुत्तरलोकार्धम् । राजा चक्रवर्ती तस्यावग्रहो भारतादिवर्षम् । गृहपतिर्मण्डलाधिपतिस्तस्यावग्रहस्तन्मण्डलादि । शय्यात वसतिस्वामी तदग्रहो वसतिरेव । साधर्मिकाः साधवस्तेषामवग्रहः शय्यातरप्रदत्तं गृहादि । एतानवग्रहान् ज्ञात्वा यथायथमवग्रहं याचेत् । अस्वामियाचेनहि परस्परविरोधेन अकाण्डघाटनादय ऐहिका दोषाः परलोकेऽपि अदत्तपरिभोगजनितं पापकर्म्म । इति प्रथमा भावना । सकृद्दत्तेऽप्यवग्रहे स्वामिना अभीक्ष्णं भूयोभूयोऽवग्रहयाचनं कार्य्यं पूर्व्वलब्धेऽवग्रहे ग्लानाद्यवस्था मूत्रपुरीषोत्सर्गपात्रकरचरणप्रक्षालनस्थानानि दातृचित्तपीडापरिहारार्थ याचनीयानि । इति द्वितीयभावना । एतावन्मात्रमेव एतावत्परिमाणमेवैतत् क्षेत्रादि ममोपयोगिनाधिकमिति अवग्रहस्य धारणं व्यवस्थापनम् । एवमवग्रहधारणे हि तदभ्यन्तरवर्तिनीमृध्वस्थानादिक्रियामासेमानो न दातुरूपरोधकारी भवति । याञ्चाकाल एवावग्रहानवधारणे विपरिणतिरपि दातुश्चेतसि स्यादात्मनोऽपि चादत्तपरिभोगजनितकर्म्मबन्धः स्यादिति तृतीयभावना । धर्म चरन्तीति धार्मिकाः समानास्तुल्याः प्रतिपन्नैकशासनाः साधवस्तेभ्यः पूर्वपरिगृहीतक्षेत्रेभ्योऽवग्रहो याच्यस्तदनुजानाद्धि तत्रासितव्यं, अन्यथा स्तेयं स्यादिति
h
योग
स्वरूपम्
॥८॥