________________
योगशास्त्रम्
ll coll
च गुप्तिसमितीनां महाव्रतभावनात्वेन गतार्थानामपि अथवा पञ्चसमितीत्यादिग्रन्थेन पुनरुत्कीर्त्तनं गुप्तिसमितीनामुत्तरगुणत्वज्ञापनार्थम् । यदाह-
१ पिण्डस्स जा विसोही समिईओ भावणा तवो दुविहो । पडिमा अभिग्गहो चिय उत्तरगुणमोविहाणाहिं ॥ १ ॥ इह च मनोगुप्तेर्भावनात्वं हिंसायां मनोव्यापारस्य प्राधान्यात् । श्रूयते हि प्रसन्नचन्द्रराजर्षिर्मनोगुप्त्याऽभाविताहिंसात्रतो हिंसामकुर्व्वन्नपि सप्तमनरकपृथ्वीयोग्यं कर्म्म निर्ममे । एषणादानेर्यासमितयस्तु अहिंसायां नितरामुपकारिण्य इति युक्तं भावनात्वम् । दृष्टान्नपानग्रहणं च संसक्तान्नपान परिहारेणा हिंसात्रतोपकारायेति पञ्चमी भावना ||२६|| द्वितीयव्रतस्य भावना आह
हास्यलोभभयक्रोधप्रत्याख्यानैर्निरन्तरम् । आलोच्य भाषणेनापि भावयेत्सूनृतव्रतम् ॥२७॥
हसन् हि मिथ्या ब्रूयात्, लोभपरवशश्चार्थाकाङ्क्षया, भयार्त्तः प्राणादिरक्षणेच्छया, क्रुद्धः क्रोधतरलितमनस्कतया मिथ्या ब्रूयादिति हास्यादिप्रत्याख्यानानि चतस्रो भावनाः । आलोच्य भाषणं सम्यगृज्ञानपूर्वकं पर्यालोच्य मृषा मा भूदिति मोहतिरस्कारद्वारेण भाषणं पञ्चमी भावना । मोहस्य च मृषावादहेतुत्वं प्रतीतमेव । यदाह -- " रागाद्वा द्वेषाद्वा मोहाद्वा वाक्यमुच्यते नृतमिति" ||२७||
तृतीयव्रतस्य भावना आह-१ पिण्डस्य या विशोधिः समितयो भावनास्तपो द्विविधम् । प्रतिमा अभिनग्रहश्चैव उत्तरगुणविधानानि ( प्रकाराः ) ॥ १ ॥
1
योगस्वरूपम्
IlColl