________________
योग
योगशास्त्रम्
स्वरूपम्
1990
द्वितीयमाहप्रियं पथ्यं वचस्तथ्यं सूनृतव्रतमुच्यते । तत्तथ्यमपि नो तथ्यमप्रियं चाहितं च यत् ॥२१॥
तथ्यं वचोऽमृषारूपमुच्यमानं सूनृतव्रतमुच्यते। कि विशिष्ट तथ्यं ? प्रियं पथ्यं च, तत्र प्रियं यत् श्रुतमात्रं प्रीणयति, पथ्यं यदायतौ हितम् । ननु तथ्यमेवैकं विशेषणमस्तु सत्यव्रताधिकारात् प्रियपथ्ययोस्तु कोऽधिकारः ? अत आह-तत्तथ्यमपीति व्यवहारापेक्षया तथ्यमपि यदप्रियं यथा चौरं प्रति चौरस्त्वं कुष्टिनं प्रतिकुष्ठीत्वमिति तदप्रियत्वान्न तथ्यम् । तथ्यमप्यहितं यथा मृगयुभिः पृष्टस्यारण्ये मृगान् दृष्टवतो मया मृगा दृष्टा इति तज्जन्तुद्यातहेतुत्वान्न तथ्यम् ॥२१॥
तृतीयमाहअनादानमदत्तस्यास्तेयव्रतमुदीरितम् । बाह्याः प्राणा नृणामों हरता तं हता हि ते ॥२२॥
वित्तस्वामिना अदत्तस्य वित्तस्य यदनादानं तदस्तेयवतम् । तच्च स्वामिजीवतीर्थकरगुर्चदत्तभेदेन चतुर्विधम् । तत्र स्वाम्यदत्तं तृणोपलकाष्टादिकं तत्स्वामिना यददत्तम् । जीवादत्तं यत्स्वामिना दत्तमपि जीवेनादत्तं यथा प्रव्रज्यापरिणामविकलो मातापितृभ्यां पुत्रादिगुरुभ्यो दीयते । तीर्थकरादत्तं यत्तीर्थकरैः प्रतिषिद्धमाधाकर्मिकादि गृह्यते । गुदत्तं नाम स्वामिना दत्तमाधाकम्मिकादिदोषरहितं गुरूनननुज्ञाप्य यद्गृह्यते । नन्वहिंसापरिकरत्वं सव्रतानामदत्तादाने तु केव हिंसा येनाहिंसापरिकरत्वं स्यादित्युक्तं बाह्याः प्राणा इत्यादि । यदि स्तेयस्य प्राणहरणस्वरूपं मृग्यते तदा तदस्त्येव ॥२२॥
LIUS