________________
योग
शास्त्रम्
॥७६॥
श्रेणिकः किल । सम्यग्दर्शनमाहात्म्यात्तीर्थकृत्त्वं प्रपत्स्यते ॥ १४॥
अधृतचरणबोधाः प्राणिनो यत्प्रभावादसमसुखनिधानं मोक्षमासाद्यन्ति । भवजलनिधिपोतं दुःखकान्तारदावम्, श्रयत तदिह सम्यग्दर्शनं रत्नमेकम् || १५ ॥ १७॥ तृतीयं रत्नमाह
सर्वसावद्ययोगानां त्यागश्चारित्रमिष्यते । कीर्त्तितं तदहिंसादिव्रतभेदेन पञ्चधा ॥ १८ ॥ सर्वे न तु कतिपये ये सावद्ययोगाः सपापव्यापारास्तेषां त्यागो ज्ञानश्रद्धानपूर्वकं परिहारः स सम्यक्चारिगं ज्ञानदर्शनविनाकृतस्य चारित्रस्य सम्यक् चारित्रत्वानुपपत्तेः । सर्वग्रहणं देशचारित्रव्यवच्छेदार्थम् । इदं च चारित्रं मूलोत्तरगुणभेदेन द्विविधं कीर्तितमित्यादिना मूलगुणरूपं चारित्रमाह । पञ्चधेति व्रतभेदेन, न तु स्वरूपतः ||१८|| मूलगुणानेव कीर्तयति —
अहिंसासूनृतास्तेयब्रह्मचर्यापरिग्रहाः । पञ्चभिः पञ्चभिर्युक्ता भावनाभिर्विमुक्तये ॥१९॥
असादयश्च पश्चापि प्रत्येकं पञ्चविधभावनाभ्यहिताः सन्तः स्वकार्यजननं प्रति अप्रतिबद्धसामर्थ्या भवन्तीति पश्चभिरित्याद्युक्तम् ॥१६॥ प्रथमं मूलगुणमाहन यत्प्रमादयोगेन जीवितव्यपरोपणम् । त्रसानां स्थावराणां च तदहिसात्रतं मतम् ॥२०॥ प्रमादोऽज्ञानसंशयविपर्ययरागद्वेषस्मृतिभ्रंशयोग दुष्प्रणिधानधर्मानादर भेदादष्टविधः । तद्योगात्त्रसानां स्थावराणां च जीवानां प्राण व्यपरोपणं हिंसा । तन्निषेधादहिंसा प्रथमं व्रतम् ||२०||
योग स्वरूम्
४७६॥