________________
योग
CHO
योग
शास्त्रम्
स्वरूपम्
S
शाकान्नादिस्वरूपवेदिनाऽपि रूचिरहितेन न सौहित्यलक्षणं फलमवाप्यते। श्रुतज्ञानवतोऽप्यङ्गारमर्दकादेरभव्यस्य दूर नव्यस्य वा जिनोक्ततत्त्वेषु रुचिरहितस्य न विवक्षितं फलमुपश्रूयते । तस्य चोत्पादे द्वयी गतिः निसर्गोऽधिगमश्च । निसर्गः स्वभावो गुरूपदेशादिनिरपेक्षः सम्यश्रद्धानकारणम् । तथाहि
अनाद्यनन्तसंसारावर्तवर्तिषु देहिषु । ज्ञानदृष्टयावृतिवेदनीयान्तरायकर्मणाम् ॥१॥ सागरोपमकोटीनां कोटयखिशत्परा स्थितिः । विंशतिगोत्रनाम्नोश्च मोहनीयस्य सप्ततिः ॥२॥ ततो गिरिसरिग्रावघोलनान्यायतः स्वयम् । एकाब्धिकोटिकोटयना प्रत्येकं क्षीयते स्थितिः ॥३॥ शेषाब्धिकोटिकोटयन्तःस्थितौ सकलजन्मिनः । यथाप्रवृत्तिकरणादग्रन्थिदेशं समिग्रति ॥४॥ रागद्वेषपरीणामो दुर्भेदो ग्रन्थिरुच्यते । दुरुच्छेदो दृढतरः काष्ठादेवि सर्वदा ॥५॥ ग्रन्थिदेशं तु संप्राप्ता रागादिप्रेरिताः पुनः । उत्कृष्टबन्धयोग्याः स्युश्चतुर्गतिजुषोऽपि ते ॥६॥ तेषां मध्ये तु ये भव्या भाविभद्राः शरीरिणः । आविष्कृत्य परं वीर्यमपूर्वकरणे कृते ॥७॥ अतिक्रामन्ति सहसा तं ग्रन्थि दुरतिक्रमम् । अतिक्रान्तमहाध्वानो घट्टभूमिमिवाध्वगाः ॥८॥ अथानिवृत्तिकरणादन्तरकरणे कृते । मिथ्यात्वं विरलीकुयुर्वेदनीयं यदग्रतः ॥९॥ अन्तर्मुहर्तिकं सम्यग्दर्शनं प्राप्नुवन्ति यत् । निसर्गहेतुकमिदं सम्यकश्रद्धानमुच्यते ॥१०॥ गुरूपदेशमालम्ब्य सर्वेषामपि देहिनाम् । यत्तु सम्यकश्रद्धानं तत्स्यादधिगम परम् ॥११॥ यमप्रशमजीवातुर्बीजं ज्ञानचरित्रयोः । हेतुस्तपः श्रुतादीनां सद्दशनमुदीरितम् ॥१२॥ श्लाध्य हि चरगज्ञानवियुक्तमपि दर्शनम् । नपुननिचारित्रे मिथ्यात्वविषदृषिते ॥१३॥ ज्ञानचारित्रहीनोऽपि श्रूयते
(१) तृप्ति लक्षणं । (२) नदी तीरभूमिम् ।
॥७५10