________________
योगशाखम् ॥७४।
योग स्वरूपम्
अभावे बन्धहेतूनां घातिकर्मक्षयोद्भवे । केवले सति मोक्षः स्याच्छेषाणां कर्मणां क्षये ॥६४॥ सुरासुरनरेन्द्राणां यत्सुख भुवनत्रये । स स्यादनन्तभागोऽपि न मोक्षसुखसम्पदः ॥६५।। स्वस्वभावजमत्यक्षं यदस्मिन् शाश्वतं सुखम् । चतुर्वर्गाग्रणीत्वेन तेन मोक्षः प्रकीर्तितः ॥६६।।
॥ इति मोक्षतचम् ॥ मतिश्रुतावधिमनःपर्यायाः केवलं तथा । अमीभिः सान्वयैर्भदैनिं पञ्चविधं मतम् ॥६७॥ अवग्रहादिभिभिन्न बहाद्यैरितरैरपि । इन्द्रियानिन्द्रियभवं मतिज्ञानमुदीरितम् ॥६८॥ विस्तृतं बहुधा पूर्वैरङ्गोपाङगैः प्रकीर्णकैः। स्याच्छब्दलान्छितं ज्ञेयं श्रुतज्ञानमनेकधा ॥६९॥ देवनैरयिकाणां स्यादवधिर्भवसम्भवः । षडविकल्पस्तु शेषाणां क्षयोपशमलक्षणः ॥ ७० ॥ ऋजुर्विपुल इत्येवं स्यान्मनःपर्ययो द्विधा । विशुद्धयप्रतिपाताभ्यां तद्विशेषोऽवगम्यताम् ॥७१॥ अशेषद्रव्यपर्यायविषयं विश्वलोचनम् । अनन्तमेकमत्यक्षं केवलज्ञानमुच्यते ॥७२॥ एवं च पञ्चभिज्ञानैतितत्त्वसमुच्चयः । अपवर्गहेतुरत्नत्रयस्याद्याङ्गभाग्भवेत् ॥७३॥
भवविटपिसमूलोन्मूलने मत्तदन्ती, जडिमतिमिरनाशे पद्मिनीप्राणनाथः। नयनमपरमेतद्विश्वतत्त्वप्रकाशे, रकरणहरिणबन्धे वागुरा ज्ञानमेव ॥७४॥१६॥
द्वितीयं रत्नमाह-- रुचिर्जिनोक्ततत्त्वेषु सम्यक्श्रद्धानमुच्यते । जायते तनिसर्गेण गुरोरधिगमेन वा ॥१७॥
जिनोक्तेषु तत्त्वेषु जीवादिपूक्तस्वरूपेषु या रुचिरतत् श्रद्धानम् । न हि ज्ञानमित्येव रुचि विना फलसिद्धिः। १ करणानि इन्द्रियाणि ।
TORUL