________________
योग
शास्त्रम्
योग स्वरूपम्
॥७३॥
स्वप्रतिष्ठं स्यादाकाशमवकाशदम् । लोकालोकौ स्थितं व्याप्य तदनन्तप्रदेशभाक् ॥५१॥ लोकाकाशप्रदेशस्था भिन्नाः कालाणवस्तु ये । भावानां परिवर्ताय मुख्यः कालः स उच्यते ॥५२॥ ज्योति शास्त्रे यस्य मानमुच्यते समयादिकम् । स व्यावहारिकः कालः कालवेदिभिरामतः॥५३॥ नवजीर्णादिरूपेण यदमी भवनोदरे । पदार्थाः परिवर्तन्ते तत्कालस्यैव चेष्टितम् ॥५४॥ वर्तमाना अतीतत्वं भाविनो वर्तमानताम् । पदार्थाः प्रतिपद्यन्ते कालक्रीडाविडम्बिताः ॥५५॥
॥ इति अजीवतत्त्वम् ॥ मनोवचनकायानां यत्स्यात्कर्म स आश्रवः । शुभः शुभस्य हेतुः स्यादशुभस्त्वशुभस्य च ॥५६।।
॥ इति आश्रवः ॥ सर्वेषामाश्रवाणां यो रोधहेतुः स संवरः । कर्मणां भवहेतूनां जरणादिह निर्जरा ॥५७॥
॥ इति संवरनिर्जरे ॥ वक्ष्यन्ते भावनास्वेवाश्रवसंवरनिर्जराः । तन्नात्र विस्तरेणोक्ताः पुनरुक्तत्वभीरुभिः ॥५८॥ सकषायतया जीवः कर्मयोग्यांस्तु पुद्गलान् । यदादत्ते स बन्धः स्याज्जीवास्वातन्त्र्यकारणम् ।।५९॥ प्रकृतिस्थित्यनुभागप्रदेशाविधयोऽस्य तु । प्रकृतिस्तु स्वभावः स्यात् ज्ञानावृत्यादिरष्टधा ॥६०॥ ज्ञानदृष्टयावृती वेध मोहनीयायुषी अपि । नामगोत्रान्तरायाश्च मूलप्रकृतयो मताः ॥ ६१ ॥ निकर्षोत्कर्षतः कालनियमः कर्मणां स्थितिः । अनुभागो विपाकः स्यात्प्रदेशोऽशप्रकल्पनम् ॥६२॥ मिथ्यादृष्टिरविरतिप्रमादौ च क्रुदादयः। योगेन सह पञ्चैते विज्ञेया बन्धहेतवः ॥ ६३ ॥
॥ इति बन्धतत्त्वम् ॥