________________
योग
शास्त्रम् uહા
स्यातामान्तर्मुहूर्त्तकौ ||३४|| कर्मणां स्थितिधातादीनपूर्वान् कुरुते यतः । तस्मादपूर्वकरणः क्षपकः शमकश्च सः ||३५|| यद्वादरकषायाणां प्रविष्टानामिमं मिथः । परिणामा निवर्त्तन्ते निवृत्तिवादरोऽपि तत् ||३६|| परिणामा निवर्तन्ते मिथो यत्र न यत्नतः । अनिवृत्तिवादरः स्यात्क्षपकः शमकश्च सः ||३७|| लोभाभिधः सम्परायः सूक्ष्म किट्टीकृतो यतः । स सूक्ष्मसम्परायः स्यात्क्षपकः शमकोऽपि च ||३८|| अथोपशान्तमोहः स्यान्मोहस्योपशमे सति । मोहस्य तु क्षये जाते क्षीणमोहं प्रचक्षते ||३९|| सयोगिकेवली वातिक्षयादुत्पन्नकेवलः । योगानां तु क्षये जाते स एवायोगिकेवली ||४०|| ॥ इति जीवतत्त्वम् ॥
अजीवाः स्युर्धम्र्म्माधर्म्मविहायः कालपुद्गलाः । जीवेन सह पञ्चापि द्रव्याण्येते निवेदिताः ॥४१॥ तत्र कालं विना सर्वे प्रदेशप्रचयात्मकाः । विना जीवमचिद्रूपा अकर्त्तारच ते मताः ||४२|| कालं विनास्तिकायाः स्युरमूर्त्ताः पुद्गलं विना । उत्पादविगमधौन्यात्मानः सर्वेऽपि ते पुनः ||४३|| पुद्गलाः स्युः स्पर्शरसगन्धवर्णस्वरूपिणः । तेऽणुस्कन्धतया द्वेधा तत्राऽबद्धाः किलाणवः ||४४|| बद्धाः स्कन्धा गन्धशब्दसौक्ष्म्यस्थौल्याकृतिस्पृशः । अन्धकारातपोद्योत भेदच्छायात्मका अपि || ४५ || कर्मकायमनोभाषाचेष्टितोच्छ्वासंदायिनः । सुखदुःखजीवितव्यमृत्यूप ग्रहकारिणः ||४६ || प्रत्येकमेकद्रव्याणि धर्म्माधर्म्मा नभोऽपि च । अमूर्त्तानि निष्क्रियाणि स्थिराण्यपि च सर्व्वदा ||४७|| एकजीवपरीमाणसंख्यातीतप्रदेशकौ । लोकाकाशमभिव्याप्य धर्म्माधम्मौ व्यवस्थितौ ||४८|| स्वयं गन्तुं प्रवृत्तेषु जीवाजीवेषु सर्वतः । सहकारी भवेद्धर्म्मः पानीयमिव यादसाम् ||४९ ॥ जीवानां पुद्गलानां च प्रपन्नानां स्वयं स्थितिम् । अधर्मः सहकार्येषु यथा च्छायाऽध्वयायिनाम् ॥५०॥ सर्वगं
योग
स्वरूपम्
॥७२॥