________________
योग
योगशास्त्रम्
स्वरूपम्
॥७२॥
देवार नारका गर्भनाः पुनः। जरायुपोताण्डभवाः शेषाः सम्मृर्छनोद्भवाः ॥१७॥ सम्मृच्छिनो नारकाच जीवाः पापा नपुंसकाः । देवास्तु २वीदाः स्युर्वेदत्रयजुषः परे ॥१८॥ सर्वे जीवा व्यवहार्यव्यवहारितया द्विधा । सूक्ष्मनिगोदा ३एवान्त्यास्तेभ्योऽन्ये व्यवहारिणः ॥१९॥ सचित्तः संवृतः शीतस्तदन्यो मिश्रितोऽपि बा । विभेदैरान्तभिन्नो नवधा योनिरङ्गिनाम् ॥२०॥ प्रत्येकं सप्त लक्षाणि पृथ्वीवार्यग्निवायुषु । प्रत्येकानन्तकायेषु क्रमाद्दश चतुर्दश ॥२१॥ षट् पुनर्विकलाक्षेषु मनुष्येषु चतुद्दश । स्युश्चतनश्वतखश्च श्वभ्रतिर्यक्सुरेषु तु ॥२२॥ एवं लक्षाणि योनीनामशीतिश्चतुरुत्तरा । सर्वज्ञोपज्ञमुक्तानि सर्वेषामपि जन्मिनाम् ॥२३॥ एकाक्षा बादराः सूक्ष्माः पञ्चाक्षाः संझ्यसंज्ञिनः । स्युर्द्वित्रिचतुरक्षाश्च पर्याप्ता इतरेऽपि च ॥२४॥ एतानि जीवस्थानानि जिनोतानि चतुर्दश । मार्गणा अपि तावन्त्यो ज्ञेयास्ता नामतो यथा ॥२५।। गतीन्द्रियवपुर्योगवेदज्ञानक्रुदादयः । संयमाहारदृग्लेश्याभव्यसम्यक्त्वसंज्ञिनः ॥२६॥ मिथ्यादृष्टिः सास्वादनसम्यग्मिथ्यादृशावपि । अविरतसम्यगदृष्टिविरताविरतोऽपि च ॥२७॥ प्रमत्तश्चाप्रमत्तश्च निवृत्तिबादरस्ततः । अनिवृत्तिबादरश्चाथ सूक्ष्मसंपरायक: ॥२८|| ततः प्रशान्तमोहश्च क्षीणमोहश्च योगवान् । अयोगवानिति गुणस्थानानि स्युश्चतुर्दश ॥२९|| मिथ्यादृष्टिमवेन्मिथ्यादर्शनस्योदये सति । गुणस्थानत्वमेतस्य भद्रकत्वाद्यपेक्षया ॥३०॥ मिथ्यात्वस्यानुदयेऽनन्तानुबन्ध्युदये सति । सास्वादनः सम्यग्दृष्टिः स्यादुत्कर्षात् षडावलीः ॥३१॥ सम्यक्त्वमिथ्यात्वयोगान्मुहूर्त मिश्रदर्शनः । अविरतसम्यग्दृष्टिरप्रत्याख्यानकोदये ॥३२॥ विरताविरतस्तु स्यात्प्रत्याख्यानोदये सति । प्रमत्तसंयतः प्राप्तसंयमो यः प्रमाद्यति ॥३३।। सोऽप्रमत्तसंयतो यः संयमी न प्रमाद्यति उभावपि परावृत्त्या
(१) देवनारकाः । (२) देवाः स्त्रीपुंसवेदाः । (३) तेऽन्येऽपि व्यवहारिणः ।
॥७२॥