________________
योगशास्त्रम्
योगस्वरूपम्
11 goll
जीवाजीवावाश्रवश्च संवरो निर्जरा तथा । बन्धो मोक्षश्चति सप्त तत्त्वान्याहुर्मनीषिणः ॥१॥ तत्र जीवा द्विधा ज्ञेया मुक्तसंसारि भेदतः । अनादिनिधनाः सर्वे ज्ञानदर्शनलक्षणाः ॥२॥ मुक्ता एकस्वभावाः स्युर्जन्मादिक्लेशवर्जिताः । अनन्तदर्शनज्ञानवीर्यानन्दमयाश्च ते ॥३॥ संसारिणो द्विधा जीवाः स्थावरत्रसभेदतः । द्वितयेऽपि द्विधा पर्याप्तापर्याप्त विशेषतः ॥४॥ पर्याप्तयस्तु पडिमाः पर्याप्तत्वनिबन्धनम् । आहारो वपुरक्षाणि प्राणा भाषा मनोऽपि च ॥५॥ स्युरेकाक्षविकलाक्षपञ्चाक्षाणां शरीरिणाम् । चतसः पञ्च षड्वापि पर्याप्तयो यथाक्रमम् ॥६॥ एकाक्षाः स्थावरा भूम्यप्तेजोवायुमहीरुहः । तेषां तु पूर्वे चत्वारः स्युः सूक्ष्मा बादरा अपि ॥७॥ प्रत्येकाः साधारणाश्च द्विप्रकारा महील्हः । तत्र पूर्वे बादराः स्युरुत्तरे सूक्ष्मबादराः ॥८॥ सा द्वित्रिचतुष्पञ्चेन्द्रियत्वेन चतुर्विधाः । तत्र पञ्चन्द्रिया द्वेधा संज्ञिनोऽसंज्ञिनोऽपि च ॥९॥ शिक्षोपदेशालापान्ये जानते तेऽत्र संज्ञिनः । संप्रवृत्तमनःप्राणास्तेभ्योऽन्ये स्युरसंज्ञिनः ॥१०॥ स्पर्शनं रसनं घ्राणं चक्षुः श्रोत्रमितीन्द्रियम् । तस्य स्पर्शों रसो गन्धो रूपं शब्दश्च गोचरः ॥११॥ द्वीन्द्रियाः कृमयः शङ्खा गण्डूपदजलौकसः । कपर्दाः शुक्तिकाद्याश्च विविधाकृतयो मताः ॥१२॥ यूकामत्कुगमत्कोटलिक्षाद्यास्त्रीन्द्रिया मताः । पतङ्गमक्षिकाभृङ्गदशाद्याश्चतुरिन्द्रियाः ॥१३॥ तिर्यग्योनिभवाः शेषा जलस्थलखचारिणः । नारका १मानवा देवाः सर्वे पञ्चेन्द्रिया मताः ॥१४॥ मनोभापाकायबलत्रयमिन्द्रियपश्चकम् । आयुरुच्छ्वासनिःश्वासमिति प्राणा दश स्मृताः ॥१५॥ सर्वजीवेषु देहायुरुच्छ्वासा इन्द्रियाणि च । विकलासंज्ञिना भाषा पूर्णानां संज्ञिनां मनः ॥१६॥ उपपादभवा
(१) मनुजाः ।
॥७०॥