________________
योगशास्त्रम्
॥६९॥
पुनर्विडम्बनाप्रायं जननमिति ||१४||
पुनरपि पूर्वार्द्धन योगं स्तुत्वा उत्तरार्द्धेन तस्वरूपमाह -
चतुर्वर्गेऽग्रणीर्मेोक्षो योगस्तस्य च कारणम् । ज्ञान श्रद्धानचारित्ररूपं रत्नत्रयं च सः ॥ १५॥ चतुर्वर्गोऽर्थकामधर्म्ममोक्षलक्षणः तस्मिन्नग्रणीः प्रधानं मोक्षः । अर्थो हि अर्जनरक्षण नाशव्यय हेतुकदुःखानुषङ्गदुषितत्वान्न चतुर्वर्गेऽग्रणीर्भवति । कामस्तु सुखानुषङ्गलेशाद्यद्यप्पर्थादुत्कृष्यते तथापि विरसावसानत्वात् दुर्गतिसाधनत्वाच्च नाग्रणीः । धर्मस्तु ऐहिकामुष्मिक सुखसाधनत्वेन अर्थकामाभ्यां यद्यप्युत्कृष्यते तथापि कनकनिगड रूप पुण्यकर्मबन्धननिबन्धनत्वाद्भवभ्रमणहेतुरिति नाग्रणीः । मोक्षस्तु पुण्यपापक्षयलक्षणो न क्लेशबहुलो न
विषसम्पृक्तान्नवदापातरमणीयः परिणामदुःखदायी न वा ऐहिकामुष्मिकफलाशंसादोषदुषित इति भवति परमानन्दमयश्चतुर्वर्गेऽग्रणीः यः । तस्य च कारणं साधकतमं करणं योगः । तस्य किं रूपमित्याह । रत्नत्रयं मरकतादिव्यवच्छेदेनाह । ज्ञानश्रद्धानचारित्ररूपमिति ||१५||
रत्नत्रये प्रथमं ज्ञानस्वरूपमाह -
यथावस्थितत्तत्त्वानां संक्षेपाद्विस्तरेण वा । योऽवबोधस्तमत्राहुः सम्यग्ज्ञानं मनीषिणः ॥१६॥ यथावस्थितानि नयप्रमाणप्रतिष्ठितस्वरूपाणि यानि तत्त्वानि जीवाजीवाश्रवसंवर निर्जराबन्धमोक्षलक्षणानि तेषां योऽवबोधस्तत्सम्यग्ज्ञानं स चावबोधः क्षयोपशमविशेषात्कस्यचित्संक्षेपेण कर्मक्षयात् कस्यचिद्विस्तरेण । तथाहि
योगस्वरूपम्
॥६९॥