________________
योग
शास्त्रम्
॥७८॥
चतुर्थमाह-
दिव्यौदारिकामानां कृतानुमतिकारितैः । मनोवाक्कायतस्त्यागो ब्रह्माष्टादशधा मतम् ||२३||
दिवि भवा दिव्याः ते च वैक्रियशरीरसम्भवाः । औदारिकाश्च औदारिकतिर्यग्मनुष्य देहप्रभवास्ते च ते काम्यन्त इति कामाश्च तेषां त्यागोऽब्रह्मनिषेधात्मकं ब्रह्मचर्यव्रतम् । तच्चष्टादशधा मनसा अब्रह्म न करोमि न कारयामि कुर्वन्तमपि परं नानुमन्ये । एवं च वचसा कायेन वेति दिव्ये ब्रह्मणि नव भेदाः । एवमौदारिकेऽपीत्यष्टादश । यदाह-
दिव्यात्कामरतिसुखात् त्रिविधं त्रिविधेन विरतिरिति नवकम् । औदारिकादपि तथा तद्ब्रह्माष्टादशविकल्पम् ॥ १॥ इति ॥
कृतानुमतिकारितैरिति मनोवाक्कायत इति च मध्ये कृतत्वात्पूर्वोत्तरेष्वपि महाव्रतेषु सम्बन्धनीयम् ||२३||
पश्चममाह-
सर्वभावेषु मूर्च्छायास्त्यागः स्यादपरिग्रहः । यदसत्स्वपि जायेत मूर्च्छया चित्तविप्लवः ॥२४॥ सर्वभावेषु द्रव्यक्षेत्र कालभावरूपेषु यो मूर्च्छाया गार्द्धयस्य त्यागो न तु द्रव्यादित्यागमात्रं सोऽपरिग्रहव्रतम् । ननु परिग्रहत्यागोऽपरिग्रहवतं स्यात् किं मूर्छात्यागलक्षणेन तल्लक्षणेन ? अत आह-यदसत्स्वपीति । यस्मादसत्स्वप्यविद्यमानेष्वपि द्रव्यक्षेत्रकालभावेषु मूर्च्छया चित्तविप्लवः स्यात् । चित्तविप्लवः प्रशमसौख्यविपर्यासः ।
योग
स्वरूपम्
॥७८॥