________________
योग
शास्त्रम्
॥६६॥
आकृष्ट करवालोऽसौ हस्तविन्यस्तमस्तकः । तदा यमपुरीद्वारक्षेत्रपाल इवा बभौ ||३९|| सुसुमायाः कबन्धस्यान्तिके स्थित्वा रुदन् धनः । वारीव बाष्पपूरेण नयनाञ्जलिभिर्ददौ ||४०|| तस्याः कबन्धमुत्सृज्य व्यावृत्तः ससुतो धनः । शल्यितः शोकशल्येन महाटव्यामथापतत् ॥ ४१ ॥ ललाटन्तपतपनतेजस्तापभयादिव । विष्वक् सङ्कुचितच्छायो मध्याह्नश्च ततोऽभवत् ॥ ४२ ॥ शोकश्रमक्षुधातृष्णामध्याह्नातपवह्निभिः । धनः सुताश्च पञ्चाग्निसाधका इव तेपिरे ||४३|| न जलं न फलं नान्यद्ददृशुर्जीवनोषधम् । मृत्यवे प्रत्युतापश्यंस्ते हिखश्वापदान् पथि ॥ ॥४४॥ आत्मनस्तनयानां च तां पश्यन्विषमां दशाम् । धनश्रेष्ठी पथ्यतुच्छे गच्छन्नेवमचिन्तयत् ॥ ४५ ॥ मम सर्वस्वनाशोऽभूत्पुत्री प्राणप्रिया मृता । मृत्युकोटिं वयं प्राप्ता धिगहो दैवजृम्भितम् ॥ ४६ ॥ नस्यत्पुरुषकारेण साध्यं धीसम्पदा न च । तदेकं दैवमेवेह बलिभ्यो बलवत्तरम् ||४७|| प्रसाद्यते न दानेन विनयेन न गृह्यते । सेवयावर्ज्यते नैव केर्यदुःसाध्यता विधेः ॥४८॥ विबुधैर्बोध्यते नैव बलवद्भिर्न रुध्यते । न साध्यते तपस्यद्भिः प्रतिमल्लोऽस्तु को विधेः || ४९ ॥ अहो दैवं मित्रमिव कदाचिदनुकम्पते । कदाचित्परिपन्थीव निःशङ्कं प्रणिहन्ति च ॥५०॥ विधिः पितेव सर्वत्र कदाचित्परिरक्षति । कदाचित्पीडयत्येव दायाद इव दुर्दमः ॥ ५१ ॥ विधिर्नयति मार्गेणामार्गस्थमपि कर्हिचित् । कदाचिन्मार्गगमपि विमार्गेण प्रवर्त्तयेत् ॥ ५२॥ आनयेदपि दूरस्थं करस्थमपि नाशयेत् मायेन्द्रजालतुल्यस्य विचित्रा गतयो विधेः ||५३|| अनुकूले विधौ पुंसां विषमप्यमृतायते । विपरीते पुनस्तत्रामृतमेव विषायते ॥ ५४ ॥ स एवं चिन्तयन्नेव प्राप राजगृहं पुरम् । सशोकः सुसुमापुत्र्या
(१) दुर्मदः
0
बिलाती
पुत्रकथा'
॥६६॥