________________
योगशास्त्रम्
॥६७॥
विदधे चौर्ध्वदेहिकम् ||५५ || वैराग्याद्व्रतमादाय श्रीवीरस्वामिनोऽन्तिके । दुस्तपं स तपस्तेपे पूर्णायुश्च दिवं ययौ ॥५६॥ चैलातेयोऽप्यनुरागात्सुसुमाया मुहुर्मुहुः । मुखं पश्यन्नविज्ञातश्रमो याम्यां दिशं ययौ ॥ ५७ ॥ सर्वसन्तापहरणं छायावृक्षमिवाध्वनि । साधुमेकं ददर्शासौ कायोत्सर्गजुषं पुरः ||५८ ||
स स्वेन कर्मणा तेन किञ्चिदुद्विग्नमानसः । तमुवाच समाख्याहि धर्म संक्षेपतो मम ॥ ५९ ॥ अन्यथा कदलीलावं विष्यामि शिरस्तव । अनेनैव कृपाणेन सुसुमाया इव क्षणात् ॥ ६०॥ स ज्ञानान्मुनिरज्ञासीद्बोधिबीजमिहाहितम् । अवश्यं यास्यति स्फाति पल्वले शालिबीजवत् ॥ ६१॥ कार्यः सम्यगुपशमो विवेकः संवरोऽपि च । इत्युक्त्वा चारणमुनिः स पक्षीव खमुद्ययौ ॥६२॥ पदानि मन्त्रवत्तानि परावर्त्तयतस्ततः । जज्ञे चिलातीपुत्रस्य तदर्थोल्लेख ईदृशः ॥ ६३॥ क्रोधादीनां कषायाणां कुर्यादुपशमं सुधीः ॥ दृहा तैरहमाक्रान्तश्चन्दनः पन्नगैरिव ॥ ६४ ॥ चिकित्साम्यद्य तदिमान्महारोगानिवात्मनः । क्षमामृदुत्वऋजुता सन्तोषपरमौषधैः ॥६५॥ धनद्यान्यहिरण्यादिसर्वस्वत्यागलक्षणम् । विवेकमेकं कुर्वीत बीजं ज्ञानमहातरोः ॥ ६६ ॥ तदिदं सुसुमाशार्ष कृपाणं च करस्थितम् । सर्वस्वभूतं मुञ्चामि केतनं पापसम्पदः ||६७ || संवरश्वाक्षमनसां विषयेभ्यो निवर्त्तनम् । स मया प्रतिपन्नोऽद्य संयमश्रीशिरोमणिः ||६८ || पदार्थ भावयन्नेवं संरुद्धसकलेन्द्रियः । समाधिमधिगम्याभूमनोमात्रैकचेतनः ॥ ६९ ॥ ततोऽस्य विवगन्धाक्छटाकवचितं वपुः । कीटिकाभिः शतच्छिद्रं चक्रे दारु धुणैरिव ||७० || पिपीलिकोपसर्गेऽपि स स्तम्भ इव निश्चल: । सार्द्धाहोरात्रयुग्मेन जगाम त्रिदशालयम् ॥ ७१ ॥ यदाह-जो तिहिं पएहि धम्मं समभिओ संमं समारूढो । उवसमविवेयसंवर चिलाइपुत्तं नम॑सामि ॥७२॥ (१) यात्रिभिः पदैः धमं समभिगतः संयमं समारूढः । उपशमविवेक संवरचिलातीपुत्रं नमस्यामि ॥
चिलाती
पुत्रकथा
ાદના