________________
योगशास्त्रम्
चिलाती पुत्रकथा
॥६५॥
दर्थमिव निर्मितः ॥२२॥ यौवनं सुसुमाप्याप्ता रूपादिगुणशालिनी। कलाकलापपर्णाभूत् खेचरीब महीचरी ॥ ॥२३॥ चैलातेयोऽन्यदोचे स्वानस्ति राजगृहे पुरे । श्रेष्ठी धनो ऽनन्तधनो दुहिता चास्य मुसुमा ॥२४॥ तस्करास्तत्र गच्छामो धनं बः सुसुमा तु मे । इति व्यवस्थामास्थाय सोऽगाद्धनगृहं निशि ॥२५॥ प्रयोज्य स्वापनी विद्या कीर्तयित्वा स्वमागतम् । स धनं ग्राहयामास सुसुमा स्वयमग्रहीत् ॥२६॥ सुप्ताशेषपरीवारः सूनुभिः पञ्चभिः समम् । अपमृत्य धनस्तस्थौ नयो नयवतां मसौ ॥२७॥ जीवनाई गृहीत्वा च हृदयेन स सुसुमाम् । चैलातेयः पलायिष्ट सलोपत्रैर्दस्युभिः सह ॥२८॥ आहूयारक्षपुरुषान् धनश्रेष्ठीत्यभाषत । चौरापइतवित्तं च प्रत्यानयत २मुसुमाम् ॥२९॥ ततो धनः सहारः पुत्रेश्वायुधपाणिभिः पुरोगस्वमनःपर्द्धयेव त्वरितमन्वगात ॥ ॥३०॥ जलं स्थलं लता वृक्षानन्यदप्यखिलं पथि । पीतोन्मत्तो हैममिव सोऽपश्यत्सुसुमामयम् ॥३१॥ इतः पीतमितो भुक्तमितः स्थितमितो गतम् । एवं वदद्भिः पदिकै स दस्यूनिकषा ययौ ॥३२॥ हत हतेति गृहीत गृहीतेति च भाषिणः । मलिम्लुचानाममिलनारक्षपुरुषास्ततः ॥३३॥ दिशो दिशि प्रणेशुस्ते वित्तं त्यक्त्वान्यतस्कराः । सुरुमां स तु नामुश्चच्चौरो व्याघ्रो मृगीमिव ॥३४॥ आरक्षपुरुषास्ते तु तद्वित्तं प्राप्य पुष्कलम् । व्यावर्तन्त कृतार्थों हि सर्वः स्यादन्यथामतिः ॥३५॥ उद्वहन् सुसुमामंसे लतामिव मतङ्गजः । प्रविवेश महारण्यं चिलातीतनयस्ततः ॥३६॥ सूनुभिः पञ्चभिः पत्राननैरिव धनोऽन्वगात् । कष्टुं पुत्री मुखाइस्यो राहोरिन्दकलामिव ॥३७॥ धने स सविधीभूते मा भवत्वस्य ३सा मम । मुसुमेति धिया तस्याः शिर:कमलमच्छिनत ॥३८॥
(१) वः। (२) सुंसमेति पाठः सर्वत्र साधुः। (३) मा ।
॥६५॥