________________
॥श्री भक्तामरस्तोत्रम् ॥
प्रभावे कथा (ग्रन्थाग्रं १२००) - तृणवृक्षलताकीर्णे, कान्तारे जातवेदसम् । ज्वलन्तमरुघल्लक्ष्मी-धरः सार्थशिरोमणिः ॥११॥ 'प्रतिष्ठान' पुरे लक्ष्मीविलासलालसो लक्ष्मीवान् लक्ष्मीधरो नाम सार्थवाहोऽवात्सीत् । स भक्तामरस्तवमधीत्य ध्यायति स्म । सोऽन्यदा -
"या श्रीः सरोरुहाम्भोधि-विष्णुवक्षसि सा श्रुतिः । __ या पुनर्व्यवसायाब्यौ, लक्ष्मीः साऽध्यक्षमीक्षते ॥" .
इति विचिन्त्य वृषभ-करभ-वेसर-खर-महिष-शकटायूह्यमानागण्यपण्यपूर्ण सार्थं कृत्वा वणिज्यायै पूर्वां दिशमगच्छत् । तदा भीष्मग्रीष्मर्तुः कलिरूपः प्रावार्तिष्ट । उक्तं च - " विधत्ते यत् तोषं 'जडपरिचितौ गोपतिकराः कटोरा जायन्ते कथमपि न तृष्णा विरमति । मुदे दोषारम्भो भवति भुवि वैरस्य घटना तदेष ग्रीष्मर्तुः किमु नुकलिकालं तुलयति? ॥१॥" - शिखरिणी तत्रौ निरन्तरसर्जार्जुनवञ्जलवरणवटतालतमालहिन्तालनागसागपुन्नागशिंशपशमीवंशजालरुद्धां रौहिषार्जुनग्रन्थिकमुस्तानलग्रामणीकाशमञ्जुमुञ्जास्तम्बादितृणच्छन्नां वनानीमध्युवास सार्थः । सार्थवाहः पवित्रीभूय स्तवमजपत् । अत्रान्तरे ज्वालामालाकरालो दन्दह्यमानवंशशोधूयमाणत्राट्कारारवो महादवः पूर्वं पूर्वस्यामुत्थितः क्षणेन दक्षिणामरौत्सीत् । वारुणीं कीलाभिररुणामकरोत् । कौबेरी सार्थिनां वैरिणी निरमापयत्। एवं वंशघर्षणभवे दवे प्रसर्पति त्रस्ताः सार्थजनाः । वस्तुरक्षा दूरे, जीविताशाऽपि मुक्ता । पदमपि न नंष्टुमलं लक्ष्मीधरसविधमागत्य तच्छरणं प्रपन्नाः । उक्तं च -
१. जडानां-मूर्खाणां परिचितौ-परिचये; पक्षे जलपरिचितौ, डलयोः सावात्। २. गोपतीनां राज्ञां कराः - राजस्वानि; पक्षे सूर्यकिरणानि। ३. दोषाणां-अपराधानां आरम्भः -प्रारम्भः; पक्षे दोषायाः-निशाया आरम्भः । ४. वैरस्य-शत्रुभावस्य घटना; पक्षे विरसस्य-निर्जलस्य भावो वैरस्यं तस्य घटना।
| १७८