________________
॥श्री मानतुङ्गसूरिविरचितम् ॥
स प्रथमजिनस्तवप्रभावमवर्णयत् । सार्थिकेभ्यो धर्मोपदेशं दत्तवांश्च । यथा" विपदि धैर्यमथाभ्युदये क्षमा सदसि वाक्पटुता युधि विक्रमः । यशसि चाभिरति (रुचि) र्व्यसनं श्रुतौ प्रकृतिसिद्धमिदं हि महात्मनाम् ॥१॥
- द्रुतविल० वाञ्छा सज्जनसङ्गमे परगुणे प्रीतिर्गुरौ नम्रता विद्यायां व्यसनं स्वयोषिति रतिर्लोकापवादाद् भयम् । भक्तिश्चार्हति शक्तिरात्मदमने संसर्गमुक्तिः खले यत्रैते निवसन्ति निर्मलगुणाः श्लाघ्यास्त एव क्षितौ ॥२॥" शार्दुल०
इति श्रुत्वा सर्वे जिनधर्मभाजो जाताः । देवराजं गुरुमिवामंसत । क्रमेण 'साकेत'- पुरं प्राप। रासोद्भवविक्रयाद् धनर्द्धिः । धर्मोदयात् सम्पन्नं सर्वम् । उक्तं च -
"राज्यं च सम्पदो भोगाः, कुले जन्म सुरूपता ।
पाण्डित्यमायुरारोग्यं, धर्मस्यैतत् फलं विदुः ॥३॥" पुनः 'श्री' पुरमागत्य श्रीविलासमकरोद् देवराजो धनी ।।
॥ इति द्वाविंशी कथा ।।
अथ दावानलभयं निरस्यति - कल्पान्तेत्यादि
हे कर्मक्षयकृशानो ! त्वन्नामकीर्तनजलं-त्वदभिधानस्तवनघननीरम् अशेषंवज्राग्निविद्युत्प्रदीपनादिभेदात् सकलं दावानलं-वनवह्नि शमयति-विनाशयति । किंभूतं दावानलम् ? कल्पान्तकालपवनेन-युगान्तसमयवातेन उद्धतः-उत्कटो यो वह्निः- अग्निस्तेन कल्पं-समं कल्पान्तवातेन उद्धतः - प्रेरितो-विस्तारितो यो वह्निस्तत्कल्पं वा, ज्वलितं-दीप्तं, उज्ज्वलंज्वालारक्तं, उत्स्फुलिङ्ग-उल्ललद्वह्निकणं, विश्वं जिघत्सुमिव-जगज्जिग्रसिषुमिव सम्मुखमापतन्तं-अभिमुखमायान्तम् अशेषं - सामस्त्येन, सर्वदिग्व्यापकं वा । त्वन्नामस्मरणनीरं दावानलं स्फेटयतीत्यर्थः। इति वृत्तार्थः ॥३६॥
१ रसोद्भवं मौक्तिकम् ।
का
१७७ |