________________
॥श्री भक्तामरस्तोत्रम् ।।
विदारिताभ्यां इभकुम्भाभ्यां-हस्तिशिरः- पिण्डाभ्यां गलता - पतता उज्ज्वलेन-रक्तश्वेतवर्णेन शोणिताक्तेन-रुधिरव्याप्तेन मुक्ताफलप्रकरण - मौक्तिकसमूहेन भूषितो-मण्डितो भूमिभागो येन सः । एतेन भद्रद्विपहन्तृत्वान्महाविक्रमसूचा। बद्धः क्रमः-परिकरो येन स बद्धक्रमः, त्वदाश्रयणाद् बद्ध:-कीलितः क्रमः-पराक्रमो यस्य स वा बद्धाः-नद्धाः क्रमाः - पादविक्षेपा यस्य स इति वृत्तार्थः ॥३५।। माहात्म्ये कथा -
देवराजो महाटव्यां, मृगराजभयाकुलान् । सार्थिकान् पालयामास, स्तवाष्टापदजापतः ॥११॥ - अनु० 'श्री' पुरे देवराजो नाम महाश्रावको दुर्गतो भक्तामरस्याध्यापकोऽभूत् । "पूया जिणंदेसु रई वएसु जत्तो य सामाइयपोसहेसु ।। दाणं सुपत्ते भमणं सुतित्ये सुसाहुसेवा सिवलोयमग्गो ॥१॥" - उप०
इति गुरूपदिष्टं धर्म साधयति स्म। स धनोपार्जनाय सार्थिकैः सह “साकेत' पुरमचलत् । क्रमेण सिंहशार्दूलभयङ्करी व्याघ्रव्यालचित्रकरौद्रीं भ्रमद्भिल्लमालां शून्यदीर्घमालां (?) विषमविषधराधिष्ठितां वनानीमध्युवास सार्थः । तत्र पवित्रतरुतले सरिज्जले स्नात्वा यावद् देवराजः स्तवं सस्मार तावत् तडित्तुल्यजाज्वल्यमानपिङ्गनेत्रदंष्ट्राकरालवक्त्रं तीक्ष्णतरनखरं दीर्घलाङ्गलास्फालनध्वनितभूधरकन्दरं तत्क्षणहतकुम्भिकुम्भस्थलनिःसृतरक्तमुक्ताफलच्छुरितभूतलं गुरुबुक्कक्वणं केसरिणं सार्थजनो ददर्श । भयद्रुताः सर्वे देवराजस्थानप्रदेशमागताः । स पञ्चत्रिंशद्वत्तस्मृतितुष्टचक्राप्रसादादस्तभ्नात् सिंहम् । हिंस्रोऽपि कृपालुः क्रोधनोऽपि क्षमी जातो हर्यक्षो विलक्षः क्रमचङ्क्रमणाक्षमः। रञ्जिताः सार्थिका ददृशुः शान्तं पारीन्द्रम् । मृगराजोऽपि स्तुतिस्मृतिभा देवराजं नत्वा तदने मौक्तिकत्रयं नखरेभ्यः प्रक्षिप्य यथास्थानमगमत् । सर्वे तुष्टुवुस्तन्मन्त्रमहिमानम् ।
१ सिंहः ।
ना
१७६ |