SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ ॥श्री मानतुङ्गसूरिविरचितम् ॥ अर्पितं नव्यं सौधम् । समग्रा वसनाद्यशनशयनीयताम्बूलसामग्री सज्जिता। दत्तं प्रतिपन्न राज्यांशमात्रम् । स च सा च नव्यनव्यसङ्गमेन सातातिरेकमापतुः । उक्तं च - "दवदड्डा खड पल्लवई, जिम वुड्डे(४)ण घणेण। विरहपलित्तमणो रहई, तिम दिद्रुण पिएण ॥१॥" किञ्च "अध्वक्लान्ततनुर्नवज्वरवती नृत्यश्लथाङ्गी तथा मासैकप्रसवा ददाति सुरते षण्मासगर्भा सुखम् । विख्याता विरहस्य सङ्गमवती क्रुद्धा प्रसन्ना ऋतुस्नाने नूतनसङ्गमे मधुमदे रागास्पदं योषितः ॥१॥" - शार्दुल० भृशं कोविदा च सा । उक्तं च - “ विदग्धवनितापाङ्ग-सङ्गमेनापि यत् सुखम् । क्व तत् प्राकृतनारीणां, गाढालिङ्गनचुम्बनैः? ॥१॥" एवं तया साकं विषयाननुभवतोऽपि भक्तामरस्तवजापे धर्मकरणे गुरुवचःश्रवणेऽपि महानादरस्तस्य । उक्तं च___ "यूनो वैदग्ध्यवतः, कान्तासहितस्य कामिनोऽपि भृशम्। किन्नरगेयश्रवणा - दधिको धर्मश्रुतौ रागः ॥१॥" - आर्या इति धर्ममन्तरान्तरा चकार। क्रमेण राज्यसुखभागभूत् सोमराजो राजा परमजैनः ॥ ।। इत्येकविंशी कथा ॥ * * * अथ सिंहभयं क्षिपति - भिन्नेभेत्यादि हे पुरुषसिंह ! हरिणाधिपोऽपि-सिंहोऽपि क्रमगतं-फालप्राप्तं ते-तव क्रमयुगाचलसंश्रितं - चरणयुग्मपर्वतकृतावासं पुरुषं न आक्रमति-न ग्रहणाय उद्यतते - न हन्तुमुद्धावति। किंभूतो हरिणाधिपः? भिन्नाभ्यां का १७५ |
SR No.009698
Book TitleBhaktamara Sutra
Original Sutra AuthorMantungsuri
AuthorYugchandravijay
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages203
LanguageSanskrit
ClassificationBook_Devnagari & Discourse
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy