________________
॥ श्री भक्तामरस्तोत्रम् ॥
हृदयनिहितं भावाकूतं स्मरद्भिरिवेक्षणैः कथय सुकृती कोऽयं मुग्धे ! त्वयाऽद्य विनिश्चितः ।।१।।- हरिणी इत्युक्ता व्रीडावाङ्मुखी न किञ्चिदवत् । मन्दिरं नीता न भुङ्क्ते, न शेते, न स्नाति, न ताम्बूलमादत्ते, न लपतीति भूतग्रस्तामिव तां वीक्ष्य सख्यो राजानमवोचन् । राजा किं भूतेन पिशाचेन यक्षेण क्षेत्रपेण वा छलितेयमिति मन्त्रचिकित्सामचीकरत् । वैद्यप्रतीकारैरपि नोपचारो जातः। ततो डिण्डिमोद् घोषणां चक्रे - यः कन्यां सज्जीकरोति तस्मै तदीहितं दद्मीति । कन्याविरहदूनमनसा सोमराजेन पटहः स्पृष्टः । नीतो राजपार्श्वम् राज्ञा कन्याऽन्तःपुरम् । स ध्यानलीनां योगिनीमिव दवप्लुष्टां वल्लीमिव हिमक्लिष्टां पङ्कजिनीमिव राहुश्लिष्टां चन्द्रकलामिव वागुरापतितामेणीमिव पाशबद्धां राजहंसीमिव पञ्जरस्था राजशुकीमिव वारिगतां गजीमिव वियोगव्यथितवपुषं मनोरमामपश्यत्। कपटमान्त्रिकीभूय दोषनिग्रहाय योगिनीमण्डलममण्डयत्, ॐ हुं फट् स्वाहादीनि मन्त्रपदानि उदचरत्। रहः कृत्वा कामविह्वलं तस्या मनो मत्वा कन्यामलपत् कर्णे -
" नालं यातुं न च स्थातुं, त्वद्रूपहतचेतनः । कुर्वसत्यं नृपं सत्यं, वाक्यं देहि प्रसीद मे ॥१॥ - अनु० दृष्टाचित्रेऽपि चेतांसि, हरन्ति हरिणीदृशः । किं पुनस्ताः स्मितस्मेर-विभ्रमभ्रमितेक्षणाः ॥२॥" - अनु० इति। त्वद्रूपमोहितः शून्यः पुरे भ्रमामीत्युक्ते सम्मुखी सत्रपा नृपात्मजाऽभूत् । तदुपलक्षणाद् द्विगुणदेहाऽजनि वसनेनावगुण्ठनमकरोत्। अपाङ्गरिङ्गच्चङ्गतारा रोमाञ्चकञ्चकसारा तदङ्गं प्रविविक्षुरिवोत्काऽभवत्। इह भवे त्वदृतेऽपरः पुमान् मे सोदर इत्युक्तस्तया सः। राजाऽप्याहूतः । दृष्टा नीरुग्देहा कुमारी भूपालेन। कलाकलितकुल्यतया तस्मै दत्ता दुहिता, हृष्टा स्वयंवरा सोमराजश्च। कारितः पाणिपीडनमहामहः ।
ना १७४ |