________________
॥ श्री मानतुङ्गसूरिविरचितम् ॥
सोमराजः । तत्र राज्ञः पट्टहस्ती महदालानस्तम्भमुन्मूल्य श्रृङ्खलान् भङ्क्त्वा हस्तिपकान् दूरं विक्षिप्य रज्जुबन्धनानि त्रोटयित्वा हट्टस्तम्भानुत्पाटयन् वाजितिर्यगादीन् घ्नन् उपरिभ्रमत्पतत्रिष्वपि शुण्डामुल्लासलयन् मत्तो मर्यादामपालयन् पुरबहिर्भागमागतः । तत्र क्षणे मनोरमा नाम राजकन्या सखीभिः सह रन्तुमाराममागतवत्यासीत् । करी तं प्रदेशमसरत् । कुमारीसख्यो जीवग्राहं गृहीत्वा नेशुः । एकाकिनी कनी बिभ्यती तरलेक्षणा तस्थौ, पदमपि गन्तुं नाशक्नोत् । पुरगोपुरोपरिस्थेन नृपेणोक्तम् - भो लोकाः ! यो मत्कन्यारक्षां करोति तस्मै कन्यां राज्यांशं च दीति । पूर्वं तरुतलोपविष्टेन श्रुतराजवचनेन सोमराजेन दृष्टः कन्यापार्श्ववर्ती च दन्ती । स जपन्नेव स्तवं लोलुभः कृपालुश्च कन्यां प्रत्यधावत् । कुमारी कराभ्यां गाढं गृहीत्वा निर्भयभूभागेऽमुचत् । करिणं प्रत्यसरत् । स्तवचतुस्त्रिंशत्तमवृत्तस्मरणमात्रेण तुष्टाव चक्रेश्वरीसान्निध्याद्धस्तिनं वशीचकार । कन्या कटाक्षवीक्षितैस्तमीक्षांचक्रे, स मृगाङ्कमुखीं तां च । परस्परमनुरागो जातः । सोऽधिरुह्य गजमालानेऽबध्नात् । राज्ञा वैदेशिकोऽकुल्योऽयमिति किश्चिद् दत्वा विसृष्टः । उक्तं न वेत्ति -
" छिज्जउ सीसं अह होउ बन्धणं चयउ सव्वहा लच्छी । पडिवन्नपालणे स-प्पुरिसाण जं होइ तं होइ ( उ ) ||१|| - आर्या ० अलसायंतेणं वि स ज्जणेण जे अक्खरा समुल्लविया । ते पत्थरटंकुक्की - रियव्व नो अन्नहा हुंति ॥२॥
जड़ चलइ मन्दरो सु-सइ सायरो ल्हसइ सयलदिसिचक्कं । तहवि हु सम्पुरिसाणं, पयंपियं नन्नहा होई ॥३॥"
इति नीतिवचः प्रसृतम्। कनी च तद्गुणान् स्मारं स्मारं (काम) दशाः प्राप । सख्योऽमिलन् । तिर्यक् शून्यं चक्षुः क्षिपन्ती तामूचुः
अलसचलितैः स्नेहादाद्रैर्मुहुर्मुकुलीकृतैः
क्षणमभिमुखैर्लज्जालोलैर्निमेषपराङ्मुखैः ।
१७३