SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ ॥ श्री मानतुङ्गसूरिविरचितम् ॥ "आर्ता देवान् नमस्यन्ति, तपः कुर्वन्ति रोगिणः । निर्धना विनयं यान्ति, वृद्धा नारी पतिव्रता ॥१॥" - अनु० लक्ष्मीधरध्यानतः स्तवषट्त्रिंशद्वृत्ताविर्भूतचक्राकथिततद्वृत्ताभिमन्त्रितपाथःसेकादेव दवानलः शशाम, नाचक्राम सार्थसीमाम्, जगाम स्वप्नतुलाम्। सर्वेऽपि कुशलिनो विस्मिताः पप्रच्छुः। स युगादिदेवस्तवं नुनाव जिनधर्ममाहात्म्यं च । उक्तं च - "आधिव्याधिविरोधादि, सर्वं बाधानिबन्धनम् । विध्यायत्याशु धर्मेण, घनेनेव दवानलः ॥१॥" - अनु० सार्थलोकोऽप्युत्तमसेवितत्वाद् दृष्टप्रत्ययत्वाच्च जिनधर्ममादृतवान् हिरण्यमुपायं लक्ष्मीधरः स्वपुरमासरत् । कदाचित् पुरे उत्थितं वज्राग्नि दुःशमं स्तववृत्तजप्ताम्भःसेचनादुपाशीशमत् सार्थेशः । रञ्जितो नितरां तन्नगरीयो राजा श्रीजिनेन्द्रं देवममन्यत लक्ष्मीधरं धार्मिकशेखरं बहु मेने । इत्थं जिनशासनं प्रभावयन् सर्वसुखकीर्तिभाजनमजनि लक्ष्मीधरः ॥ ॥ इति त्रयोविंशी कथा ।। * * * अथ भुजङ्गभयं दलयन्नाह - रक्तेक्षणमित्यादि हे नागपतिसेव्य ! यस्य पुंसो हृदि त्वन्नामनागदमनी स्यात्। त्वन्नामैव नागदमनी-ओषधिविशेषो जाङ्गुलीविद्या वा। कोऽर्थः? यः -पुरुषः स्त्री वा त्वन्नाममन्त्रं चित्ते धत्तेसदेत्यर्थः । स निरस्तशङ्को-निर्भयः क्रमयुगेन-निजपदद्वन्द्वेन फणिनं-सर्पमाक्रामति-घर्षति रज्जुवत् स्पृशतीति। क्रमयुगग्रहणेन विशेषं द्योतयति । सामान्योऽपि सर्पः पादाहतः कुप्यति । दुष्टविषधरस्य का वार्ता? अथ पदोपलक्षणात् हस्तशरीराभ्यां घृष्टोऽपि न कोपवान् स्यात् । किंभूतम्? रक्तक्षणं-ताम्रनेत्रं समदकोकिलकण्ठनीलंमत्तपिकगलकालं क्रोधोद्धतं-कोपोत्कट-ईOदुर्दान्तं उत्फणं-ऊर्वीकृतफट आपतन्तं-सम्मुखं धावन्तम् ।। इति वृत्तार्थः ॥३७॥ ना १७९ |
SR No.009698
Book TitleBhaktamara Sutra
Original Sutra AuthorMantungsuri
AuthorYugchandravijay
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages203
LanguageSanskrit
ClassificationBook_Devnagari & Discourse
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy