________________
॥ श्री मानतुङ्गसूरिविरचितम् ॥
'भूत्या'। केचित् तु पूर्वान्वये हे भुवनभूषणभूत ! हे नाथ ! इत्यामन्त्राणाभ्यामन्वयं कुर्वन्ति, तत्र भूतशब्द उपमार्थे वाच्यः॥
अथ समासा :- अति-अत्यन्तं-अतिक्रान्तं अद्भुतं अत्यद्भुतम्। 'अतिरतिक्रमे' इति सिद्धहेम (अ. ३, पा. १, सू. ४५) सूत्रात् तत्पुरुषसमासः। भुवनस्य भूषणं भुवनभूषणं, तत्सम्बोधनं क्रियते हे भुवनभूषण !। भूतानां नाथः भूतनाथः, तत्सम्बोधनं हे भूतनाथ !। प्राणिनां पालकत्वात् । आत्मनः समः आत्मसमस्तं आत्मसमम्।। इति दशमकाव्यार्थः ।। १० ।।
અર્થ: હે ભુવન ભૂષણ ! હે ભૂતનાથ ! પૃથ્વી ઉપર સદ્ભુત ગુણો વડે આપને સ્તવનાર આપની તુલ્ય થાય છે (તેમાં) આશ્ચર્ય નથી. અથવા નિચ્ચે અહિં જે (સ્વામી) આશ્રિતને સંપત્તિવડે પોતાની સમાન નથી કરતો? તેના વડે (તેવા स्वामी 43) शुं?
* * * अथ आस्तां स्तवनं, किन्तु त्वदर्शनमपि मनोहरमित्याह - दृष्ट्वा भवन्तमनिमेषविलोकनीयं
नान्यत्र तोषमुपयाति जनस्य चक्षुः। पीत्वा पयः शशिकरद्युति दुग्धसिन्धोः
क्षारं जलं जलनिधे रसितुं क इच्छेत्? ॥११॥ दण्डान्वयः - अनिमेषविलोकनीयम् भवन्तम् दृष्ट्वा जनस्य चक्षुः अन्यत्र तोषम् न उपयाति, दुग्धसिन्धोः शशिकरद्युति पयः पीत्वा कः जलनिधेः क्षारम् जलम् रसितुम् इच्छेत्?.!
हे नाथ ! जनस्य चक्षुः अन्यत्र तोषं न उपयातीत्यन्वयः। ‘उपयाति' इति क्रियापदम्। किं कर्तृ? 'चक्षुः', कस्य? 'जनस्य'। कं कर्मतापन्नम्? 'तोषं' सन्तोषं तृप्तिमित्यर्थः। कुत्र? 'अन्यत्र' अन्यस्थाने। कथम्? 'न'। किं कृत्वा? 'भवन्तं दृष्ट्वा' (त्वां) विलोक्य। त्वद्दर्शनाल्लब्धरसं जननयनं नार्थान्तरेषु रतिं लभते इति भावः।
ना १८ व