________________
॥श्री भक्तामरस्तोत्रम् ।।
प्रभावे कथा -
'नर्मदा' तटवास्तव्य - श्रेष्ठिपुत्री दृढव्रता ।
पुष्पस्रजमिवोग्राहि - मग्रहीत् करपङ्कजे ॥१॥ - अनु० । - श्री नर्मदा नदीतटे 'नर्मद' पुरे पुरश्रेष्ठी महेभ्यो नाम यथार्थनामा । तत्सुता कलागुणपूर्णा द्वैधमपि दृढव्रता भक्तामरस्तवं शुद्धमबुध्यत सा । अन्येास्तत्र पुरे वणिज्यायै दशपुरान्माहेश्वरः कर्मणो नामागमत् । कर्मणस्य महेभ्येन सह मैत्री जाता । श्रेष्ठिना स्वगृहे न्यमन्त्रि । कर्मणेन भुञ्जानेन श्रेष्ठिसुता दृष्टा । गाढानुरागोऽभूत् । कपटश्रावकीभूय कन्यार्थं धनाशनवसनदानादिना श्रावका मित्राणि कृतानि तेन । उक्तं च" क्रतौ विवाहे व्यसने रिपुक्षये प्रियासु नारीष्वधनेषु बन्धुषु । यशस्करे कर्मणि मित्रसङ्ग्रहे धनव्ययोऽष्टासुन गण्यते बुधैः॥१॥" - वंशस्थम्०
मित्रैर्महेभ्याभ्यणे स श्लाघितः । कन्या च याचिता श्रेष्ठिना । "कुलं च शीलं च सनाथता च विद्या च वित्तं च वपुर्वयश्च । एतानि सप्त प्रविलोक्य देया ततः परं भाग्यवशा हि कन्या ॥१॥" - उप०
इति विचार्य वर्या दिक्करी तस्मै दत्ता । परिणीय स्वपुरमागमद् गृहिणीयुक् कर्मणः । गृहागतो जलवत् स्वधर्म शिश्राय । श्वपुच्छवद् वक्रतां नाहासीत् । सा सुश्राविका निशि न भुङ्क्ते, अन्यदेवान् न वन्दते, अनन्तकायाद्यभक्ष्यं नानाति। श्वशुरवर्गो मिथ्यादृक् । प्रिये ! स्वकुलोचितं धर्मं कुरु, स्त्रियः पतिवम॑गा भान्ति इत्युक्ताऽपि पत्या सा धर्मं नात्यजत् । कर्मणो भिन्नधर्मेयमिति द्वितीयां पर्यणैषीत् । वारकेण द्वयोः करे भुङ्क्ते । दृढव्रता निशाशनं न दत्ते । तं याचन्तं बूते - कान्त! रात्रिभोजने महान् दोषः । उक्तं च - “ उलूककाकमार्जार-गृधशम्बरशूकराः ।
अहिवृश्चिकगोधाश्च, जायन्ते रात्रिभोजनात् ॥१॥"- अनु० इत्युक्तोऽपि नाबुध्यत । दुस्त्यजो दर्शनरागः । उक्तं च -
ना १८०