________________
॥श्री मानतुङ्गसूरिविरचितम् ॥
"कामरागस्नेहरागा-वीषत्करनिवारणौ ।
दृष्टिरागस्तु पापीयान्, दुरुच्छेदः सतामपि ॥१॥"- अनु० -- (वीतरागस्तोत्रे, प्र० ६, श्लो० १०)
माहेश्वरी पतिं प्रतारयति स्म। एषा भिन्नधर्मा दुराचारैव भासते। स्वदेवगुरुनमनबुद्ध्या क्वापि प्रयाति । कार्मणं वा कारयति न वेद्मि । परं त्वां कलङ्कयिष्यति । यदुचितं तत् कुरु । कर्मणः कार्मणकलङ्कभिया दृढव्रतामृतये 'कृष्णकुम्भीनसं कुम्भे क्षिप्त्वा तद्द्वहान्तः प्रच्छन्नमतिष्ठिपत्। प्रातस्तद्गृहमागात् । सा भक्तामरस्तवं गुणन्त्यासीत् । पीठादुत्थिता। तेनोक्तम्-मध्ये घटान्तर्मणिमालाऽस्ति तामानय । सा सप्तत्रिंशं वृत्तं स्मरन्ती गृहान्तरगमत्। घटे करं चिक्षिप्य रज्जुमिव स्रजमिव स्तवोक्तस्वरूपं सरीसृपं निःशङ्का चक्राम । लात्वा पतिपाणौ ददाना दूरादेव तेनोक्तम् - सत्यशीले ! दूरे मुञ्च सर्पम् । मुक्तस्तया। मिलितः श्वशुरपक्षः। सपत्न्यपि स्तम्भितं क्षमाशीलं कृष्णोरगं विलोक्य एषा सर्पस्तम्भविद्याविदिति मेने। तत्रान्तरिक्षवागुदच्छलत् - रे रे पापाः ! किं चिन्तयत? इयं दृढव्रता पतिव्रता लोकद्वयहितं धर्ममाराधयति। एतद्धर्मप्रभावादेव भुजङ्गस्तम्भः। योऽस्या विरुपं करिष्यति स स्वपापेनैव गलिष्यति योऽस्या वाक्यं चाचरिष्यति स सर्वसुखभाजनं भविष्यति। इत्युक्त्वा तिरोहिता चक्रा । सर्वे पादयोः पेतुः । ततो धर्म शुश्रुवुः, यथा -
"देवो जिनः सद्गुरुरेव सेव्यो धर्मो विधेयः करुणाप्रधानः । द्वाविंशतिं नैव कदाप्यभक्ष्य-वस्तूनि भक्ष्याणि किमत्र लक्ष्म ॥१॥"-इद्र० षट्कर्मरताः श्राद्धा ब्राह्मणा एव । उक्तं च"देवपूजा गुरुपास्तिः, स्वाध्यायः संयमस्तपः । दानं चेति गृहस्थानां, षट् कर्माणि दिने दिने ॥१॥" - अनु०
१ श्यामसर्पम् ।
का १८१ ला