________________
॥श्री भक्तामरस्तोत्रम् ॥
शुचितया कर्माणि कुर्वते । उक्तं च - " सत्यं शौचं तपः शौचं, शौचमिन्द्रियनिग्रहः । सर्वभूतदया शौचं, जलशौचं तु पञ्चमम् ।।२॥"- अनु० श्रावकगृहिण्यः पञ्चसु यतनां कुर्वते । उक्तं च - "खण्डनी पेषणी चुल्ली, जलकुम्भः प्रमार्जनी । पञ्चसूना गृहस्थस्य, तेन स्वर्गं न गच्छति ॥३॥" - अनु० ज्ञातैतद्धर्मतत्त्वा जैनधर्म प्रपन्नाः । सपत्न्यपि चरणयोरपतत् । तां क्षमयामास धर्ममङ्गीचकार । एवं प्रभावयामास दृढव्रता जिनशासनमिति।
।। इति चतुर्विंशी कथा ।।
* * * अथ रणातवं हरन्नाह - वल्गेत्यादि, कुन्ताग्रेत्यादि __ हे देवाधिदेव ! त्वत्कीर्तनात्-त्वन्नामग्रहणादाजौ-सङ्ग्रामे बलवतामपि शक्तानामपि भूपतीनां-राज्ञां बलं-सैन्यं शौर्य वा भिदामुपैति-स्फुटनमायाति। किंभूतम्? वल्गतां-धावतां तुरङ्गाणां-गजानां च गर्जितानि भीमनादा-घोरवीरसिंहनादाश्च यत्र तत्। अथ (वा) क्रियाविशेषणमेतत् सङ्ग्रामस्य(?) किमिव? तम इव। यथा उद्यद्दिवाकरमयूखशिखापविद्धं-उद्गच्छत्सूरकरततिप्रेरितं-सूर्यकरक्षिप्तं तमः-अन्धकारं भेदं याति प्रलयं प्रयाति तद्वदित्यर्थः। इति वृत्तार्थः ।।३८।।
* * * किञ्च -
हे जिनेश्वर ! त्वत्पादपङ्कजवनायिणः-त्वत्पदपद्मषण्डभाजो जना युद्धे रणे जयं-विजयं लभन्ते - प्राप्नुवन्ति । किंभूते युद्धे? कुन्तात्रैःभल्लाद्मभिन्नानां-पाटितानां गजानां शोणितं-रक्तमेव वारिवाहो-जलप्रवाहः तस्मिन् वेगावतारात्-शीघ्रप्रवेशात् तरणे-प्लवने आतुरैः-व्याकुलै
ना १८२ जा