________________
॥ श्री मानतुङ्गसूरिविरचितम् ।।
योधैः-भटैः भीम-भयानकं तस्मिन् । किंभूता जनाः? विजितः - पराभूतो दुर्जयः - अजेयो जेयपक्षो-जेतव्यगणो यैस्ते । इति वृत्तार्थः ।।३९।। अत्र प्रभावे कथा - रणकेतोर्बलं भग्नं, राजसूगुणवर्मणा ।
एकाकिना महास्तोत्र-प्रभावादेव कानने ॥१॥ - अनु० _ 'मथुरायां' पुरि रणविजयलब्धकेतुः श्रीरणकेतुर्नृपः। तस्य लघुबन्धु
गुणवर्मा । स जिनधर्मरक्तो दुष्टपाखण्डिविरक्तो भक्तामरस्तवजापासक्तो दाता भोक्ता महोत्कटः करटिबलनिराकरिष्णुः प्रथितः ।। ____ अथ रणकेतुराजा पट्टदेव्याऽभाणि-देव ! अयं गुणवर्मा तादृग् दृश्यते श्रूयते च बन्दिवृन्दनन्दितामन्दकीर्तिः सर्वजनप्रियः पुरान्तर्विलसति । यथा स्तोकैरेव दिनैः राज्यं वशीकृत्य हरिष्यति । राज्यहारी बन्धुरपि रिपुः । उक्तं च
"तुल्यार्थं तुल्यसामर्थ्य , मर्मज्ञं व्यवसायिनम् ।। अर्धराज्यहरं मित्रं, यो न हन्यात् स हन्यते ॥१॥" - अनु० राजोवाच देवि ! सोदरे कथं विरूपं करोमि? दुर्लभो भ्राता । उक्तं च "देशे देशे कलत्राणि, देशे देशे च सूनवः । तं देशं नैव पश्यामि, यत्र भ्राता सहोदरः ॥१॥"
देव्योचे-रिपुरूपे का सौंदर्यबुद्धिः ?। अस्मिन् सति त्वत्पुत्राणां क्व राज्यम्? त्वत्पुरतस्तवान्वये राज्यं गतम् । तव नामापि कश्चिन्न ग्रहीता। अथ सोदरत्वान्न हंसि, तर्हि राज्यादेककं निःसारयेत्युक्ते मन्दीभूतो बन्धुस्नेहः । उक्तं च -
"तावद् बन्धुमनोभूमौ, रम्या स्नेहवनावली । यावन्न ज्वलति स्त्रीणां, विश्लेषवचनानलः ॥१॥" - अनु०
आहूय सेनान्यमवग् राजा-भद्र ! गुणवर्मणे देशत्यागं ब्रूहि। तेन गत्वा उक्तो राजादेशः । कुमारोऽशुभस्य कालहरणं न विक्रमावसर इत्यादि विमृश्य निरगान्नगरात्। तदा तस्य निःसरणक्षणे वर्षर्तुरवर्तत । राजीवचोवृत्तिभिरिवान्धकारितं सर्वदिग्भिः। दुर्जनमनोभिरिव गर्जितं जलधरैः ।
ना १८३ |
-