________________
॥ श्री भक्तामरस्तोत्रम् ॥
राजदुः प्रीत्येव क्षणदृश्यया लसितं चपलया । सुजनाश्रुतत्येव जृम्भितमासारधाराधोरण्या। भूपप्रतापैरिव नष्टं सूकरैः (ग्रन्थाग्रं १३००) । रणकेतुकीर्तिपूरैरिवान्तर्हितं चन्द्रांशुभिः । पापपाखण्डिभिरिव ताण्डवितं शिखण्डिभिः। तास्तृणवल्लीकन्दमूललताङ्कुरवर्धिन्यो नदीनदसरस्सु वारिविस्तारिण्यो वर्षाः कलिमनुचक्रुः । उक्तं च -
"सर्वत्रोद्गतकन्दला' वसुमती वृद्धिर्जडानां परा जातं निष्कमलं जगत् सुमलिनैर्लब्धा धनैरुन्नतिः । सर्पन्ति प्रतिमन्दिरं द्विरसनाः संत्यक्तमार्गो जनो
वर्षाणां च कलेश्च सम्प्रति जयत्येकैव राज्यस्थितिः || १ || ' ' शार्दुल० स वनं भ्रमन् स्वस्य मनोवत् तुङ्गं दानवद् विशालं कृत्यवत् सफलं भाववन्निर्झरजलार्द्रं भूधरमारूढः । तत्र कन्दरायां कन्दफलाशनः षट्त्रिंशच्छास्त्राभ्यासी स्तवं पञ्चपरमेष्ठिमन्त्रं च स्मरन्नस्थात्। एकोनचत्वारिंशद्वृत्तजापक्षणे प्रकटीभूयाप्रतिचक्रा वरमदात् तस्मै स प्राज्यमजय्यं राज्यमयाचत। देव्या राज्यवरो दत्तोऽजेयश्च कृतः । देवी तिरोधाच्च । अथ तस्य धर्मवन्निर्मलश्चन्द्रमरीचिभिः कीर्तिवत् कुवलयानन्दनः शुभभाग्यवत् सफलितभूतलः स्वान्तवृत्तिवद् विजयदशमीबलिराजादिपर्वभिः कृतसज्जनहर्षकुतूहलः कृतसप्तच्छदविकाशनः कमलवनप्रबोधनः काशपुष्पप्रकाशन : पाकितसर्वव्रीहितृणवल्लीप्रतानः " समागच्छच्छरत्समयः कलिप्रतिच्छायः । उक्तं च
'नक्षत्राण्यमलानि सम्प्रति जनो यात्येव मार्गस्थितः
सञ्जाताच जडाशयाः ३ सकमला ४ दोषाकरः सप्रभः । ५ सन्तापाय तथेनमण्डलमलं ६ लोकस्य तीवैः करैः
""
संवृत्तः किमयं कलिः किमु शरत्कालो न विज्ञायते ? ॥ १ ॥ " शार्दूल० तत्रर्तौ रणकेतुराजा देशसाधनाय सर्वबलेन निरगात् । गिरिकान्तारे उत्कटकर्माणं शस्त्राभ्यासं कुर्वाणं गुणवर्माणं वीक्ष्य हननायादिदेश
१ कन्दलः = (१) नवाङ्कुरः; (२) तिरस्कारः; कन्दलः = बाहुयुद्धम् । २ डलयोः सावर्ण्यात् जलानां वारीणाम् । ३ निर्धनम् । ४सर्पाः ; दुर्जनाः । ५ समागात्
१८४