________________
॥ श्री मानतुङ्गसूरिविरचितम् ॥
सैन्यम् । एको वने रुद्धः सैन्येन सिंहो मृगयूथेनेव । लग्नमायोधनं शस्त्राशस्त्रि खड्गाखड्गि शराशरि दण्डादण्डि । क्षणेन हतप्रतिहतं सैन्यं चक्रे कुमारेण तमोवृन्दं भास्वतेव । ततो रणकेतुरुत्थितो रणाय । कुमारेण चक्रावरप्रसादाद् राजाऽपि समपास्तसमस्तशस्त्रच्छत्रकेतुः कृतो रथात् पातितश्च । वनदेवताभिर्जयरवपुरःसरं गुणवर्मशिरसि कुसुमवृष्टिः कृता । कुलीनताङ्कुशप्रेरितो नम्रोऽतिष्ठत् कुमारः । उक्तं च -
" नमन्ति सफला वृक्षा, नमन्ति कुलजा नराः ।
शुष्कं काष्ठं च मूर्खाश्च, भज्ज्यन्ते न नमन्ति च ॥१॥" - अनु० " साली भरेण तोये-ण, जलहरा फलभरेण तरुसिहरा ।
विणएण य सम्पुरिसा, नमन्ति न हु कस्सइ भएण ||२|| " विलक्षो लज्जितोऽभवद् राजा, विरक्तमनाः स्वचेतसि चिन्तयामास
•
'अर्थं धिगस्तु बहुवैरकरं नराणां राज्यं धिगस्तु सततं बहुशङ्कनीयम् ।
रूपं धिगस्तु नियतं परिहीयमानं देहं धिगस्तु परिपुष्टमपि व्रणाशि ॥ १ ॥ " - वसन्त ०
अथ च
-
"अवश्यं यातारश्चिरतरमुषित्वाऽपि विषया
वियोगे को भेदस्त्यजति न जनो यत् स्वयममून् ।
व्रजन्तः स्वातन्त्र्याद्तुलपरितापाय मनसः
स्वयं त्यक्तास्त्वेते शमसुखमनन्तं विदधति ॥ | १ ||" - शिखरिणी
तथा यद्यहं पूर्वं स्त्रीवचसि नालगिष्यं, तदा रणे मानक्षतिं नाप्स्यम् । धिक् स्त्रीजातीयाः स्वार्थरता ः अनर्थसार्थे क्षिपन्ति पुरुषम् । पुमानपि तदासक्तोऽचेतनो भवति । उक्तं च
:
-
“
" तावदेव पुरुषः सचेतन- स्तावदाकलयति क्रमाक्रमौ ।
१ पक्षे न इति पृथक् पदं ज्ञेयम् । २ डलयोः सावर्ण्यात् जलाशयाः-सरोवराणि । ३ कमलैर्युक्तानि, पक्षे सश्रीका धनिकाः । ४ दोषाणां अपराधानां आकर :- समूहो यस्मिन् स दोषाकरः, दोषां रात्रिं करोतीति दोषाकर:- चन्द्रः । ५ क्लेशाय; अतीव धर्माय । ६ राजमण्डलं; सूर्यमण्डलम् ।
१८५