________________
॥ श्री भक्तामरस्तोत्रम् ॥
यावदेव न कुरङ्गचक्षुषां ताड्यते चपललोचनाञ्चलैः ||१|| "- रथोद्धता
अथ
"संपीड्येवाहिदंष्ट्राग्नि-यमजिह्वाविषाङ्कुरान् ।
जगज्जिघत्सुना नार्यः कृताः क्रूरेण वेधसा ॥२॥ - अनु० संसार ! तव पर्यन्त - पदवी न दवीयसी ।
अन्तरा दुस्तरा न स्यु-र्यदि रे मदिरेक्षणाः ॥ ३॥ " - अनु० इत्यादि संचिन्त्य राज्ञा सामन्तैः सह पर्यालोच्य सज्जितो राज्याभिषेकविधिः । गुणवर्माणं सिंहासनेऽधिरोप्य तीर्थजलैरभ्यषिञ्चन्नरेन्द्रः । स्वयं वने जटाधारी जातः । स राजा 'मथुरायां' समेतः भ्रातृव्यादीनां राज्यविभागं दत्त्वा एकातपत्रं राज्यं निष्कण्टकं राज्यसुखमद्वैतमभजत् । निरन्तरगुरूपदेशश्रवणतीर्थयात्राकरणपरोपकारनिर्माणादिभिर्मनुष्यफलं जग्राह । जिनधर्मं प्रभावयामास । पर्वतिथिषु प्रभूतदुरितखण्डनानि निरतिचाराणि सामायिकपौषधादिकव्रतानि पालयामास श्रीयुगादिजिनादिप्रासादानचीकरद् गुणवर्मा जैननरेन्द्रः ॥
॥ इति पञ्चविंशी कथा ॥ * * *
अथ जलापदं प्रशमयन्नाह - अम्भोनिधावित्यादि
हे भववार्धिपोत ! अम्भोनिधौ - समुद्रे एवंविधे सति सांयात्रिका जना भवतः स्मरणात् त्रासम् - आकस्मिकं भयं विहाय - त्यक्त्वा व्रजन्ति-क्षेमेण स्वस्थानं यान्ति । किंभूते ? क्षुभितानि-क्षोभं गतानि भीषणानि - रौद्राणि नक्रचक्राणि च पाठीनाश्च पीठाश्च भयदो-भीकृदुल्बणः प्रकटो वाडवाग्निश्च यत्र स तथा तस्मिन् । किंभूता जनाः ? रङ्गत्तरङ्गशिखरस्थितयानपात्राःउच्छलत्कल्लोलाग्रवर्तिवाहनाः । नक्रचक्रं दुष्टजलजन्तुवृन्दम् । पाठीनपीठौ मत्स्यभेदौ । वडवाग्निः वडवानलः । इति वृत्तार्थः ॥ ४० ॥ प्रभावोदाहरणं यथा -
१८६