________________
॥श्री मानतुङ्गसूरिविरचितम् ।।
'तामलिप्ती' पुरीवासी, धनावहवणिग्वरः । क्षुब्धेऽब्धौ देवतातुष्ट्या, श्रेयसा पुरमीयिवान् ॥१॥ - अनु०
धनकनकवसनरत्नसपत्नीकृतालकायां नन्दनवनासहनीभूतारामाभिरामायां देवीरूपसरूपनागरिकरामायां श्रीसञ्चयमालिन्यां 'तामलिप्त्यां' पुरि बहुधनो धनावहनामा श्रेष्ठी। सोऽन्यदा श्रीजिनेश्वरसूरिदेशनामशृणोन्मसृणमनाः । यथा -
"वन्द्यास्तीर्थकृतः सुरेन्द्रमहिताः पूजां विधायामला सेव्याः सन्मुनयश्च वन्द्यचरणाः श्रव्यं च जैनं वचः । सच्छीलं परिपालनीयमतुलं कार्यं तपो निर्मलं ध्येया पञ्चनमस्कृतिश्च विदुषा भाव्या च सद्भावना ॥१॥' शार्दूल० तत्रापि धर्मे जीवदया सर्वत्रापि सारोक्ता
"देविंदचक्कवट्टि-त्तणाई भुत्तूण सिवसुहमणन्तम् । पत्ता अणंतसत्ता, अभयं दाऊण जीवाणम् ॥शा" - आर्या यो दद्यात् काञ्चनं मेरुं, कृत्स्ना चापि वसुन्धराम् । सागरं रत्नपूर्णं वा, न च तुल्यमहिंसया ॥२॥ - अनु० हंतूण परप्पाणे, अप्पाणं जो करेइ सप्पाणम् ।। अप्पाणं दिवसाणं, कएण नासेइ अप्पाणम् ॥३॥"- आर्या इत्याकर्ण्य प्राणान्तेऽपि स्थूलं निरपराधं जीवं न हन्मि न घातयामीति व्रतं जग्राह । श्रावकोऽभूत् । भक्तामरस्तवं पठित्वाऽस्मार्षीच्च । सोऽन्यदा प्रभूताऽपि विभूतिस्त्यागभोगादिना क्षीयते निर्व्यवसायानामिति विमृश्य पुरपरद्वीपयोग्यभाण्डैर्वाहनपञ्चकमापूर्य शुभमुहूर्ते नारिकेलादिभिः समुद्रपूजां कृत्वा २बोहित्थमारूढः । युगपच्चलितानि पक्षिवत् केनिपातपक्षप्रेरणया ४बहित्रकाणि । स्वल्पैर्दिनैः ‘सिंहल'द्वीपं प्रापुः । जातो यथेप्सितो लाभः । मणिमुक्ताप्रवालकपूरचन्दनादीनि प्रतिभाण्डानि जगृहिरे । बोहित्थानि भृत्वा पूरितानि स्वदेशं प्रति । क्रमेणान्तःसागरं प्रविष्टेषु
ना
१८७ |