________________
॥श्री भक्तामरस्तोत्रम् ॥
यानपात्रेषु नाविका अचीकथन्-श्रेष्ठिन् ! इह विकटाक्षी देवी पशुबलिं गृह्णाति सांयात्रिकेभ्यः। ब्रूहि यथा तटवर्तिग्रामादानीय करं दद्मः, अन्यथा श्रेयो न । श्रेष्ठ्याऽऽह स्म-भो कर्णधाराः ! मह्यं पशुधातो न रुचितः। सर्वथा जीवान् न हन्मि न घातयामीति । भोगं निरेनसं यच्छामि देव्याः । यत उक्तं च -
"दमो देवगुरुपास्ति-र्दानमध्ययनं तपः । सर्वमप्येतदफलं, हिंसां चेन्न परित्यजेत् ॥१॥ - अनु० हिंसा विघ्नाय जायेत, विघ्नशान्त्यै कृताऽपि हि । कुलाचारधियाऽप्येषा, कृता कुलविनाशिनी ॥२॥" - अनु० इति कथितेऽभ्युन्नता घनाः। ववुर्वाताः। वृत्तोक्तस्वरूपेऽम्भोधौ धनावहः स्तवं सस्मार । कलकलं कुर्वन्तः समकालमलपन् नाविकाः - श्रेष्ठिन् ! एकाग्रहो मा भूः। देव्युपदां देहि यथा कुशलं स्याद् वाहनानाम् । आत्मार्थे सर्वेऽधर्ममपि समाचरन्ति विज्ञाः । उक्तं च -
"त्यजेदेकं कुलस्यार्थे, ग्रामस्यार्थे कुलं त्यजेत् । ग्राम जनपदस्यार्थे, आत्मार्थे पृथिवीं त्यजेत् ॥११॥- अनु० आपदर्थे धनं रक्षेद्, दारान् रक्षेद् धनैरपि । आत्मानं सततं रक्षेद्, दारैरपि धनैरपि ॥२॥" - अनु० अल्पनाशे बहुरक्षणं युक्तम् ।
"सर्वनाशे समुत्पन्ने, अर्धं त्यजति पण्डितः ।
अर्धेन कुरुते कार्य, सर्वनाशो हि दुस्तरः ॥११॥" - अनु० तत् सर्वथाऽप्यात्मा रक्ष्य एव । अतः पशुबलिं यच्छेत्युक्तोऽपि स्तवध्यानान्नाचलत् श्रेष्ठिसत्तमः । तस्मिश्चत्वारिंशं वृत्तं जपति व्यन्तरी
१ नालिकेरादिभिः । २ नावम् । ३ के-जले निपात्यन्ते-नीयन्ते नावोऽनेनेति केनिपातः-अरित्रम् । ४ प्रवहणानि ।
का १८८
-