________________
॥ श्री मानतुङ्गसूरिविरचितम् ।।
कृतोत्पाताः प्रलीनाः। विकटाक्षी प्रकटीभूताऽनयं रत्नमढौकयत् । देव्युवाच-भो धर्ममते ! त्वन्निश्चलव्रतपालनतया चक्राज्ञया च तुष्टाऽस्मि । वरं ब्रूहि -
"अमोघा वासरे विद्यु-दमोघं निशि गर्जितम् ।
नारीबालवचोऽमोघ -ममोघं देवदर्शनम् ॥१॥" - अनु० इत्युक्ते श्रेष्ठी जीवहत्यावारणवरमयाचत । अमृतभुजां देवानां नोचितः पशुवधाभिलाषो निरर्थकः पापहेतुः । देव्याऽङ्गीकृतम् । ततः परं छुटिताः पशुबलेः पोतवणिजः। वाहनपञ्चकं स्तम्भतीर्थे क्षणेनायातं क्षेमेण । असङ्ख्यधनभाग् चक्रायुक्श्रीयुगादिजिनप्रासादमचीकरत् । तीर्थयात्रा नैकशः मूर्ति(सूत्रि?)ताः पवित्राः । अत्यन्तानन्दसुखभाजनमजनि धनावहः ।।
॥ इति षड्विंशी कथा ।।
अथ रोगभयं भिन्दन्नाह - उद्भूतेत्यादि
हे कर्मव्याधिधन्वन्तरे ! मा-नरा: उद्भूतभीषणजलोदरभारभुग्ना उत्पन्नरौद्रोदरवृद्धिव्याधिभरवक्रीकृता भग्ना वा पाठे मोटिताः शोच्यां दशामुपगता:-दीनामवस्थां प्राप्ता: च्युतजीविताशा:-त्यक्तजीवतव्यवाञ्छा: एवंभूता: त्वत्पादपङ्कजरजोऽमृतदिग्धदेहा:- भवच्चरणकमलरेणुसुधालिप्तवपुषो मकरध्वजतुल्यरूपा:-कामसममूर्तय: कमनीयकान्तयो भवन्ति । यथा सुधापानाभिषेकात् सर्वरोगनाशस्तथा भवत्पदपद्माश्रयणादपि सकलव्याधेरुपशमः इति वृत्तार्थः ।।४१ ।। प्रभावप्रकटनं यथा -
चक्रेश्वरीप्रसादेन, ज्ञातौषधिचिकित्सया ।
राजहंसकुमारस्य, रोगा नेशर्महाभयाः ॥१॥ - अनु० श्री ‘उज्जयिन्यां' पुरी राजशेखरो राजा। पट्टदेवी विमला । तत्कुक्षिभूः
ना १८९ क